________________
तत्वोपप्लवसिंहे
.. अथ उदकग्रहणोत्तरकालभावित्वेन स्मृतित्वम् । तदा संस्कारस्य स्मरणरूपता प्राप्नोति, उदकग्रहणोत्तरकालभावित्वेन, रससंवेदनस्य च ।।
अथ निर्विषयत्वेन स्मृतिरूपता उच्यते; तयुक्तम् ; पूर्वो5दितानुभवावेदितार्थाकारावेदकत्वेन उदीयमानायाः कथं निर्विषयत्वम् ? अथ पूर्वानुभूतार्थप्रत्यस्तमये सति समानकालार्थाभावानिर्विषयता; तदा चोदनाजनितविज्ञानस्य निर्विषयत्वेन स्मृतित्वमापनीपद्यते, कर्त्तव्यतारूपार्थस्य तदाऽभावात्। भावे वा कर्त्तव्यरूपता नोपपद्यते । तदनुपपत्तौ सप्ततन्तुक्रियाया 10विलोपप्रसङ्गः। यदि च निर्विषयत्वेन स्मृतित्वम् ; तदा विद्यमानघट-जात्यादेः स्मरणस्यास्मृतित्वप्रसङ्गः । ___अथ ' अद्राक्षम् ' इत्यनेनाकारेणोपजायमानत्वेन स्मृतित्वम् ; तयुक्तम् ; 'इहोदकम्' इत्यनेनाकारेणोपजायमानायाः कथम् 'अद्राक्षम्' इत्येवंरूपतोपपद्यते ? अथ विप्रमुषित]ता 15अनया भङ्ग्या उपजायते ।
[$ ८. प्रसङ्गात् विप्रमोषपरीक्षा।] कोऽयं विप्रमोषो नाम ? किमनुभवाकारस्वीकरणम् , स्मरणाकारमध्वंसो वा, अपूर्वार्थगृहीतित्वं वा, इन्द्रियार्थसन्निकर्षजत्वं वा, इन्द्रियार्थाऽसन्निकर्षजत्वं वा ? तद्यदि अनुभवाकार20स्वीकरणम् ; तदा स्मृतिरूपता नोपपद्यते । अथ स्मृतिरूपता; तदाऽनुभवाकारस्वीकरणं नोपपद्यते, स्मृत्यनुभवाकारयोः इतरेतरपरिहारस्थितिलक्षणत्वात्। अथ स्मरणाकारप्रध्वंसः तद्युक्तम् विज्ञानस्य स्वयं स्मृतित्वेनाभ्युपगमात् । प्रध्वंसो हि अविज्ञानात्मकः कथं स्मृतिरूपतां विधत्ते ? अथ अपूर्वार्थविषयग(०र्थय)ही25तित्वं स्मृतिप्रमोष उच्यते; तदा अत्यन्ताऽननुभूतकनकपनसादिसंवित्तीनां स्मृतिविप्रमोषत्वमापद्यते। अथ इन्द्रियार्थसन्निकर्षजत्वं स्मृतिविप्रमोष उच्यते; तदा संवित्तीना(ना) स्मृतिविप्र