________________
१. न्यायसंमतस्य प्रत्यक्षलक्षणस्य परीक्षा । १७ तेनाऽसत्त्वम् । तदा चन्द्रार्कग्रहनक्षत्रतारकादौ व्यभिचारः मुमूवर्थे च । अथ सर्वप्रतिपत्तृणामर्थक्रियां न करोति तेनाऽसत्त्वम् । एवं तर्हि सर्वभावानामसत्त्वप्रसङ्गः । नहि सर्व भावाः सर्वपुरुषार्थहेतवः । न च सर्वषुरुषार्थक्रियाविहीनमेतद् इत्यवगन्तुं पार्यते अर्वाग्विदा। तस्मात् स्थितमेतद् अव्यभिचारिपदमा नर्थकम् । [$७. भ्रमस्य स्मृतित्वं स्वीकुर्वतां प्राभाकराणां मतस्य विकल्प्य निरसनम् ।
अन्ये तु मरीच्युदकविज्ञानस्य स्मृतित्वं प्रतिपद्यन्ते । भ्रान्तिरूपताम् । तस्य कथं स्मृतित्वम्-किमुदकगृहीतित्वेन, गृहीतोदकगृहीतित्वेन वा, उदकग्रहणानन्तरकालभावित्वेन वा, निर्विषयत्वेन वा, 'यमहमद्राक्षम् ' इत्यनेनाऽऽकारेण उपजायमानत्वेन वा?
तद्यदि उदकगृहीतित्वेन; तदा सर्वोदकविज्ञानानां स्मृतित्वप्रसङ्गः।
अथ गृहीतोदकगृहीतित्वेन स्मृतित्वम् । तदाऽऽद्यस्यापित गृहीतोदकगृहीतित्वे स्मृतित्वं प्रसज्यते, गृहीतोदकग्राहित्वाविशेषात् । आद्यस्य गृहीतोदकग्राहित्वं नास्ति; तदानीं भिन्नविषयत्वम् , भिन्नविषयत्वे च द्वितीयस्यापि गृहीतग्राहित्वं विहीयते। अथ एकविषयत्वम् : आयातं तर्हि प्रथमस्यापि गृहीतग्राहित्वम् , अविशिष्टार्थगृहीतिरूपत्वात्, प्रथमोत्तरविज्ञानवत् । यथा एकनीलस्वलक्षणग्राहकयुगपदुत्पन्नानेकविज्ञानात् नीलज्ञानरूपता न भिद्यते तथेहापि । तथा, धारावाहिविज्ञानानां स्मृतिरूपता प्राप्नोति । तथा, प्रत्यभिज्ञानस्य च गृहीतग्राहित्वेन स्मृतित्वं प्रसज्यते। अथ प्रत्यभिज्ञानस्य गृहीतार्थनाहित्वं न विद्यते; तदा प्रत्यभिज्ञानत्वं निवर्त्तते, नयाचं दर्शनं स2 एवायम्' इत्युपजायते। तथा, आनुमानिकमपि विज्ञान(नं) गृहीतार्थग्राहित्वेन स्मृतित्वमापद्यते।
३ त.