________________
तत्वोपप्लवसिंहे अथ निर्विषयेण बाध्यते; न किश्चिद् विदधाति प्रतिषेधति वा निर्विषयत्वादेव ।
अथ ज्ञानं बाध्यते; तस्यापि वाधा का?- किं स्वरूपव्यावृत्तिरूपा, स्वरूपापह्नवरूपा वा, विषयापहारलक्षणा वा? तद्यदि स्वरूप 5व्यावृत्तिरूपा बाधा, तदा सर्व बाधितं स्यात् विज्ञानस्य विज्ञानान्तरेण निर्व( निवर्त्यमानत्वात् । अथ स्वरूपापहवरूपं(पा); तयुक्तम् : मिथ्योदकविज्ञानस्यापि अनुभूयमानत्वात् । अथ विषयापहारलक्षणा बाधा उच्यते; सापि न युक्ता। यथा च विषयापहारो न शक्यते कत्तुं तथाऽनन्तरमेव निवेदितम् । 10 यदि न बाध्यते किमित्यसौ अर्थक्रियां न करोति भावः? केयम् अर्थक्रिया या तेन न सम्पाद्यते पुंसाम्-किं विज्ञानरूपा, प्रवृत्तिरूपा,प्राप्तिरूपा, सुखदुःखोत्पाभोगरूपा वा ? तद्यदि विज्ञानलक्षणां न करोति; तयुक्तम् । विज्ञानलक्षणामर्थक्रियां करोत्येव तोयम् । अथ प्रवृत्तिरूपां न करोति; तयुक्तम् ; प्रवृत्तिर्हि 15पुरुषेच्छानुविधायिनी नार्थस्वरूपभावाभावावनुगमयति । पुरुषो हि कामतः प्रवर्तते वा न वा, नयेतावता तदभावसिद्धिः । अथ प्राप्तिरूपाम् अर्थक्रियां न करोति तेनाऽसत्त्वम् तदप्ययुक्तम्; . चन्द्रार्कग्रहनक्षत्रतारकादेः प्राप्त्यभावेऽपि सत्त्वसंभवात् । अथ सुखदुःखरूपामर्थक्रियां न करोति-किं दर्शनजं सुखं न करोति 20आहो देहसम्बन्धजम् ? तद्यदि दर्शनजं न करोति तदयुक्तम् ; करोत्येव । अथ देहसम्बन्धजं न करोति; तदा चन्द्रार्कग्रहनक्षत्रादौ व्यभिचारः तेषां देहसम्बन्धजसुखजनकत्वं नास्ति, अथ च सत्त्वम् । न च अर्थक्रियाऽकर्तृत्वेन वस्तूनामसत्वं स्वहेतोरेव विज्ञानजननमात्रस्योत्पत्तेः, सहकारिविरहाद्वा न करोति। 25 किञ्च, अर्थक्रियां न करोति-किमेकस्य प्रतिपत्तुः, सर्वप्रतिपतृणां वा ? तयदि एकस्य प्रतिपत्तुरर्थक्रियां न करोति