________________
१. न्यायसंमतस्य प्रत्यक्षलक्षणस्य परीक्षा । १५ स्वयमेव आत्मानं बाधते; तदा वाधा तेन क्रियते, ज्ञाप्यते वा? यदि क्रियते; अव्यतिरिक्ता, व्यतिरिक्ता वा ? यद्यव्यतिरिक्ता; तदा बाधा क्रियते इति आत्मा अनेनोत्पाद्यते। तच्च न जाघटीति स्वात्मनि क्रियाविरोधात् । अथ व्यतिरिक्ता क्रियते; तथापि विद्यमानस्य कर्तृत्वं न प्रतीयमानस्थाऽपलापः।
5 अथ बाधा ज्ञाप्यते; साप्यभिन्ना, भिन्ना वा ? यद्यभिन्ना; तदा बाधा तेन ज्ञाप्यते । किमुक्तं भवति? उदकं ज्ञाप्यते । अथ भिन्ना; तदा विद्यमानस्य ज्ञापकत्वं सिद्धं प्रतीयमानस्य चाऽस्तित्वम् ।
अथ अर्थान्तरेण बाध्यते; तथापि विद्यमानयोर्बाध्यबाधक-10 भावो भूपालयोरिव, नचैकस्य बाध्यबाधकभाव उपपद्यते । बाधापि तेन प्रतीयमानस्य-किं क्रियते, ज्ञाप्यते वा ? यदि क्रियते; अव्यतिरिक्ता, व्यतिरिक्ता वा ? यद्यव्यतिरिक्ता; तदा अव्यतिरिक्ता बाधा उत्पाद्यते। किमुक्तं भवेत् ? उदकमुत्पाद्यते। तदुत्पादने च तत्संविदोऽमिथ्यात्वम् । अथ व्यतिरिक्तोत्पाद्यते;15 तथापि तोयसम्बन्धितयोपलव्धेरम्भस उपपत्तिर्न जातु देवदत्तस्याऽसत्त्वे तन्नयनव्यवहारसिद्धिः। अथ ज्ञाप्यते तदा साऽन्यतिरिक्ता, व्यतिरिक्ता वा ? यद्यव्यतिरिक्ता ज्ञाप्यते; तदा बाधा तेन ज्ञाप्यते। किमुक्तं भवति? उदकं ज्ञाप्यते। अथ व्यतिरिक्ता सती ज्ञाप्यते; तथाप्युदकस्येयं बाधेति अन्यतन्त्रतया प्रतिभासनात्20 नात्यन्ताभावोपपत्तिः । तस्मादर्थान्तरेणापि न बाधोपपत्तिः।
अथ ज्ञानेन बाध्यते; किं तद्विषयेण, अन्यविषयण, निर्विषयेण वा ? यदि तद्विषयेण; तदा तत् स्वरूपं विधत्ते न तु विपर्यासयति तदाकारपर्यवसितरूपत्वात् । अथ अन्यविषयं बाधकम् । तदपि न युज्यते, यद् यद्विषयं तत्तस्यैव सत्तां विधत्ते नत्वन्यस्य25 विधायक प्रतिषेधकं वा । स्वविषयपर्यवसायिन्यो हि बुद्धयः।