________________
तत्त्वोपप्लवसिंहे
विषयस्य परमार्थसत्त्वात् । नच उदकाकारावगाहिनि विज्ञाने तोयविनिवृत्तयोऽवभान्ति अतिप्रसङ्गात्। अथ ज्ञानान्तरेण; न; ज्ञानयोगपद्यासम्भवात् ।
यदि च अभावज्ञानेन अभावव्यवस्था क्रियते भावज्ञानेन 5च भावव्यवस्था, तदा उदकस्य भावाभावी एककालौ स्याताम्। अथ भावज्ञानं भावव्यवस्थां न करोति अभावज्ञानं च अभावव्यवस्थां करोति । अहो राजाज्ञा नैयायिकपशोः । यदि च भावज्ञानं भावव्यवस्थां न करोति तदा सर्वभावेषु अनाश्वासप्रसङ्गः। तत्प्रसक्ती अमावस्याप्यनवस्थितिः, तदनवस्थितौ च 10तत्त्वोपप्लवः स्यात् । अथाऽनवगतः सोऽस्तीति कथं पुनर्वेत्सि? अथ कालान्तरे; तदा न किश्चिद् बाध्यते सत्योदकस्यापि कालान्तरऽभावोपपत्ते।
__ अथ प्रतीयमान एव अभावः कथं तद्विषयज्ञानस्य मिथ्यात्वमुपपद्यते प्रतीयमानस्यैव अभावस्योपपत्तेः ? नच भावाकारे 15प्रतीयमाने अभावकल्पना न्याय्या अतिप्रसङ्गात् , अन्यथा रूपादौ प्रतीयमाने रसादिकल्पना कर्तव्या । न च क्रियते, तथेहापि उदकं प्रतीयते । ननु प्रतीयते किन्तु अतथ्यम् । यद्येवम् उदकप्रपञ्चोऽयं दीर्घोदकं मधुरोदकमिति यथा । नन्वत्र सर्वासु अवस्थासु उदकं प्रतीयते तेन तासु अम्भः प्रकल्प्यते। यद्येवं 20तदिहापि अवस्थादयपि उदकं प्रतीयते सत्योदकमसत्योदकं च। सत्योदकज्ञाने सत्योदकमवभाति नाऽसत्योदकमनुदकं वा । तथा असत्योदकज्ञानेऽसत्योदकं प्रतिभाति न सत्योदकमनुदकं वा, स्वविषयपर्यवसायिन्यो हि वुद्धयः ॥छ॥
__ अथ बाध्यमानत्वेन मिथ्यात्वमिति चेत् ; किं बाध्यते-अर्थः, 25ज्ञानम् , उभयं वा ? यद्यर्थस्य बाधा; स केन बाध्यते ? किं स्वयमेव आत्मानं बाधते, आहो अर्थान्तरेण, ज्ञानेन वा ? यदि