________________
१. न्यायसंमतस्य प्रत्यक्षलक्षणस्य परीक्षा । १३ प्रतीयमानत्वं च तथा उदकस्यैव आलम्बनत्वं प्रतीयमानत्वं च, नालम्बनान्तरं परिकल्प्यम् । न चोदकज्ञानस्य प्रतीयमानोदकाऽन्यालम्ब(न)त्वेन मिथ्यात्वम् अपि तु अभावात् तात्त्विकत्वेन, अन्यथा केशोण्डुकसंविदोऽपि मिथ्यात्वं न प्राप्नोति, अन्यालम्बनव्यतिरेकात् ।
5 यदप्युक्तम्-मरीचिदेशं प्रति गमनात् मरीचीनामालम्बनत्वम् । यद्येवं देशस्थापि आलम्बनत्वमनया रीत्या उपपद्यते । नच अवभातोदकभिन्नार्थसन्निकर्षजत्वम् उदकविज्ञानस्य उपपद्यते, सत्योदकज्ञानेऽदृष्टत्वात्, अन्यथा अनुमेयदहनज्ञानस्यापि इन्द्रियार्थसन्निकर्षजत्वमापनीपद्येत आत्ममनःसन्निकर्ष-10 जत्वात् । अथ प्रतीयमानदहनेन सह मनसो नास्ति सम्बन्धः; तदिहापि प्रतीयमानेन अम्भसा सह नास्ति सम्बन्धः चक्षुषः। तस्मादयभिचारिपदं न युक्तम् इन्द्रियार्थसन्निकर्षपदेनापोदितत्वात्।
[$ ६. पुन: प्रकारान्तरेण अव्यभिचारिपदस्यापाकरणम् । ] 15 इतोप्यनुपपन्नम् , अपोयज्ञानाऽसंभवात् । अथ मरीच्युदकविज्ञानाय( प )निर्नी(नी)षया उपादीयते; तत्कथमपनीयते ? अविद्यमानोदकविषयत्वात् । यद्यविद्यमान(नं); कोऽयं विषयार्थः ? पूर्वोदितमनुसरणीयम् । यदि तत्रोदकं प्रतिभाति कथं नास्ति ? सत्यम् , प्रतिभाति, किन्तु अतथ्यं प्रतिभाति । 20
अतथ्यता का?-किं प्रतीयमानस्याऽभावः , उत प्रतीयमान एव अभावः ? तद्यदि प्रतीयमानस्य अभावः-स किं तदैव, आहोस्वित् कालान्तरेण ? यदि तदैव; स किम्व(किमव)गतः, अनवगतो वा ? यद्यवगतः; स केनावगम्यते किमुदकविज्ञानेन, ज्ञानान्तरेण वा ? तद्यादकज्ञानेन; तन्न; तस्य उदकविषयत्वात्।25 तद्विषयत्वे वा न तर्हि 'उदकज्ञानं भ्रान्तम् । इत्युपपद्यते अभाव