________________
१२
तत्त्वोपप्लवसिंहे ननु यद्यपि प्रतीयमानोदकेन सह सम्बन्धो नास्ति चक्षुषः, तथापाप्या(थाप्या )लम्ब्य मरीचिनिचयेन सार्क सम्बन्धोऽस्ति, तस्यैव आलम्बनत्वात् तद्देशं प्रति प्रवृत्तेः, अत एव मिथ्यात्वम्, अन्यदालम्बनम् अन्यच प्रतिभाति। 5
५. प्रसङ्गादालम्बनपदार्थस्य परीक्षणम् । ] कोऽयमालम्बनार्थो नाम येनेदमुघुष्यते- अन्यदालम्बनं चान्यत् प्रतिभातीति ?-किं विज्ञानजनकत्वम्, आकारार्पकत्वम्, विज्ञानाधिकरणत्वम् , विज्ञानावभासितता वा? तद्यदि विज्ञानजनकत्वमालम्बनार्थः; तदा नयनालोकादेरपि आलम्बनत्वं 10प्रसज्यते। अथ आकारार्पकत्वमालम्बनत्वम् । तद्युक्तम् , नैयायिकसमयेऽनभ्युपगमात् । यथा च विषयाकारो विज्ञाने न युज्यते तथोपरिष्टात् प्रतिपादयिष्यामः । अथ विज्ञानाधिकरणत्वमालम्बनत्वम् , [नः] न मरीचिचक्रोत्कलितमुदीयते ज्ञानम्
अपि तु आत्मसमवेतमात्मानमासाद्यते। अथ विज्ञानावभासि15तता आलम्बनत्वम् । तदा उदकविज्ञाने उदकं प्रतीयते न मरीचयः।
अथ उदकाकारतया मरीचय एव प्रतीयन्ते; स उदकाकारो मरीचिभ्यो व्यतिरिक्तोऽव्यतिरिक्तो वा ? तद्यद्यव्यतिरिक्तः स तात्त्विकोऽतात्विको वा ? यदि तात्विकः कथं तदवगतेर्मि20थ्यात्वम् ? अथाऽतात्विकः; तदा मरीचीनामपि अतात्त्विकत्वं प्रसज्यते। अतात्त्विकोदकतादात्म्ये सति तदुदकज्ञानमतथ्यम्। किमुक्तं भवति ? मरीचिविज्ञानमतथ्यम् । एकस्मिंश्चोदकाकारे प्रतीयमाने केन एतदाख्यातम्-मरीचयः प्रतिभान्ति देवानाप्रियस्य ! 25 अथ अर्थान्तरभूतः; तर्हि न वक्तव्यम् - मरीचय उदकाकारतया प्रतीयन्ते उदकाकारान्तरिता मरीचयः । अथ केशोण्डुकविज्ञाने किमवभाति? किमालम्बते ? केशोण्डुकस्यैव आलम्बनत्वं