________________
१. न्यायसंमतस्य प्रत्यक्षलक्षणस्य परीक्षा ।
किञ्च, तद्विज्ञानम् अव्यभिचार्यवगतं सामग्रया ज्ञापकम् , अनवगतं वा ? यद्यवगतम् ; तस्यावगति: आत्मसंविद्रूपा वा, ज्ञानान्तरवेद्या वा ? तद्यद्यात्मसंवेदनरूपावगतिः; तद्युक्तम् । द( स्व )यमनभ्युपगमात् । अभ्युपगमे वा उपगमविरोधः ।
अथ ज्ञानान्तर थेद्यं वेत्सिा विज्ञानयोर्भेदे बीजमन्वेष्टव्यम्। 5 ज्ञानमज्ञानाकारात् ज्ञानात्मतया व्यावर्त्तते ज्ञानान्तरात्तु कथं व्यावर्त्तते? -किं ज्ञानात्मतया व्यावर्त्तते आहोस्विद् आकारान्तरेण ? तद्यदि ज्ञानात्मतया व्यावर्त्तते; तदा अन्यस्य ज्ञानात्मता निवर्तते तोयादेर्यथा ।
अथ आकारान्तरेण; आकारान्तरस्वीकरणे ज्ञानाकारविरहः10 स्यात् आकारयोस्तादात्म्याऽयोगात् । तादात्म्ये वा एकं तद्वस्तु ज्ञातं( नं) अज्ञातं(नं) वा? यदि ज्ञातं(नम्); न तर्हि आकारान्तरेण व्यावर्त्तते किन्तु ज्ञानात्मतयैव, अन्यस्य अज्ञानात्मकत्वप्रसङ्गः। अथ अज्ञातं(न); सिद्ध नः समीहितम् । अथ ज्ञानत्वं व्यावर्त्तकम् , तत्केन व्यावर्त्तते इति पूर्वोक्तमनुसतव्यम् । विज्ञा-15 नान्तरवेद्यमपि न संभवति ।
अथ न वेद्यते; तदस्तीति कथं पुनर्वेत्सि ? अनेनैव वर्मना सत्येतरविज्ञानयोविभागाभावोऽभ्युपगन्तव्यः । अतोऽव्यभिचारिपदमपार्थकम् ।
[$४. प्रकारान्तरेण अव्यभिचारिपदस्य निरासः ।] 20 इतोग्यपार्थकम्-इन्द्रियार्थसन्निकर्षपदेन अपोदि(हि)तस्वात्। नहि केशोण्डुकविज्ञानस्य नयनार्थसन्निकर्षोद्भूतिरस्ति। नन्वस्ति मरीच्युदकविज्ञानस्य, तदपनोदाय अन्यभिचारिपदम् । तन्ना यत उदकं प्रतिभाति, न च तेन सह सम्बन्धोऽस्ति। विद्यमानेन साकं सम्बध्यते नाऽविद्यमानेन। तत्सम्बन्धे वा, न तद्विषयो-25 (ये) मिथ्यात्वमिहोपपद्यते सत्योदकसंवेदनवत् ।