________________
तत्त्वोपप्लवसिंह
म्यतदुत्पत्तिसमवायसम्बन्धाभावे सति षष्ठ्यों वक्तव्यः 'तस्य अव्यभिचारित्वम् ' इति । अथ पृष्ठोत्पन्नस्तर्हि पूर्व व्यभिचारिता विज्ञानस्य प्राप्नोति । न च आध्यात्मिकोऽव्यभिचारिरूपो धर्मोस्ति सुखादिव्यतिरिक्तः, तत्प्रतीत्यसंभवेन 5स्वयमनभ्युपगमात्। यदि च अव्यभिचारादयो धर्मा अर्थान्तरभूताः अभ्युपगम्धन्ते तैरवच्छिन्नं विज्ञानं सामग्रथा अवस्थापकमुक्षुष्यते; तच्चानुपपन्नम् : प्रत्येकमनेकविशेषणावच्छिन्नविज्ञानप्रतिपत्तिकालावस्थानायोगात्, ज्ञाप्यज्ञापकयोरभावे कर्तृमात्रप्रबन्धि ज्ञानं स्यात् । 10 अथ तत्स्वरूपमव्यभिचारित्वम्-तत्किं स्वसत्तामात्राऽनु
रोधेन, अर्थान्तरसत्तानुरोधेन वा ? तद्यदि ज्ञानसत्तामात्रतैवाऽव्यभिचारित्वमुच्यते, तदा केशोण्डुकसंविदोऽपि अव्यभिचारिता स्यात् । नच ज्ञानसत्तामात्रानुरोधेन ज्ञानं व्यभिचार्यव्यभिचारि वा उद्गीयते । 15 अथ अर्थान्तरसत्तानुरोधेन अव्यभिचारित्वम्-किम् अनुपकारकाऽर्थान्तरसत्तानुरोधेन, आहोस्विद् उपकारकाऽर्थान्तरसत्तानुरोधेन ? तद्यदि तावद् अनुपकारकाऽर्थान्तरसत्तानुरोधेन, तदा केशोण्डुक-इन्दुदयसंविदोप्यव्यभिचारिताप्रसङ्गः ।
अथ उपकारकाऽर्थान्तरसत्तानुरोधेन अव्यभिचारिता-किं 20प्रतीयमानाऽर्थान्तरोपकारकसत्तानुरोधेन, तद्विपरीतार्थान्तरोपकारकसत्तानुरोधेन वा ? तद्यदि पूर्वपक्षाभ्युपगमः, तदा अतीताऽनागतानुमानविज्ञानस्य योगिप्रत्यक्षस्य च चोदनावचनजनितविज्ञानस्य वाऽव्याभिचारिता न भवेत् तद्वगतोपकारकार्थाभावात् , भावे वा वितानक्रियालोपप्रसङ्गः । अथ उत्तरो 25मतः; तदा केशोण्डुक-इन्दुव्यसंविदोऽव्यभिचारित्वं प्रसज्यते इत्यसहीतम्। * — वितान ' ' क्रिया' अनयोर्मध्ये अखिलेति छिन्नं वर्तते ।