________________
१. न्यायसंमतस्य प्रत्यक्षलक्षणस्य परीक्षा ।
अथ तत् सत्य(अथ तद्वंशज)जलप्राप्त्या अव्यभिचारिता ज्ञायते; तदयुक्तम् । अन्त्यावयविद्रव्याणां जनकत्वव्यतिरेकात्। न च उदकव्यक्तीनां नानात्वमस्ति, यथा च न विद्यते तथा निवेदितं पुरस्तात्।
किश्च, प्रवृत्तिसामर्थ्येन अव्यभिचारिता पूर्वोदितज्ञानस्य ज्ञाप्यते-किं लिङ्गभूतेन, आहो अध्यक्षात्मकेन ? तद्यदि लिङ्गभूतेन; तयुक्तम् ; तेन साकं सम्बन्धानवगतः। अवगतौ वाऽलं प्रवृत्तिसामर्थेन । अथ अध्यक्षात्मकेन; तयुक्तम् ; पूर्वोदितप्रत्यस्तमितेन साकं सन्निकर्षाऽभावात् । तद्विषयविज्ञानं न प्रत्यक्षफलं निरालम्पनत्वात् केशोण्डुकादिसंवेदनवत्।न विज्ञा-10 नस्याभावोऽवभाति, न भावः तदभावात्।
अविद्यमानस्य विषयार्थो वक्तव्यः - किम् आकारापकत्वेन वा, महत्त्वादिधर्मोपेतत्वेन वा, सत्तामात्रेण वा, सहोत्पादेन वा? सर्वस्य प्रत्यस्तमितत्वात् कथमसौ विषयः? तद्विषयत्वे केशोण्डुकादिविज्ञानस्येव मिथ्यात्वे बीजमन्वेषणीयम् । आत्मसत्ता-15 मात्रेण मिथ्यात्वे सर्वस्य मिथ्यात्वमापद्यते ततः तत्त्वोपप्लव: स्यात्।
अथ अन्यथाऽव्यभिचारित्वं गृह्यते-आत्मान्तःकरणसम्बन्धेन उत्पन्नं विज्ञानम् अव्यभिचारिताविशिष्टं प्रद्योत्यते; तदयुक्तम् । तदव्यभिचारित्वं तद्धर्मो वा, तत्स्वरूपं वा? तद्यदि20 तधर्म:-स नित्यः, अनित्यो वा? यदि नित्यः ; तदा जातिदोषेणापोपोदि(णापोदि)तो वेदितव्यः । ____ अथाऽनित्यः-स पूर्वोत्पन्नः, सह, पश्चाद्वा जातः ? तद्यदि पूर्वोत्पन्नः; तदा कस्यासौ धर्म: ? न हि धर्मिणमन्तरेण धर्मों भवितुमर्हति, सर्वतो व्यावृत्तरूपत्वात् कः कस्येति वक्तव्यम् ।25 अथ सहोत्पन्नः; कस्तयोः सम्बन्ध इति वक्तव्यम् । तादा
२त.