________________
तस्योपष्लबसिंहे.
सम्बन्धः तदा घटजात्यादेः सम्बन्धत्वं प्रसज्यते। अथ सम्बन्धबुद्धयुत्पादकस्ते सम्बन्ध: उच्यते; तदा लोचनादेरपि सम्बन्धत्वप्रसङ्गः । अथ सम्बन्धबुद्धयवसेयः सम्बन्धोऽभिधीयते; तदा कौलेयककरिकुमारादिष्वपि सम्बन्धशब्दव्युत्पादने सम्बन्धत्व5प्रसङ्गः। सम्बन्धेतरयोः एकविज्ञानविषयत्वे इतरस्य सम्बन्धरूपता प्रासा । अथ सम्बन्धाकारः सम्बन्धः; संयोगाऽभेदप्रसङ्गः। अवान्तरगणिकाकारस्तु यथा न भेदकः तथा पुरस्तादुक्तमेव दूषणम्।
__ अथ 'इह तन्तुषु पटः' इति इहबुद्धयाऽध्यवसीयते; न; इह10बुद्धरधिकरणसंविद्रूपत्वात् । न चास्मिन्ना( नचान्यस्मिन्ना )कारेप्रतीयमाने अन्यत् परिकल्पयितुं न्याय्यम् , अतिप्रसङ्गात् । अथ समवायवुद्ध्याऽऽत्मसात्क्रियते; सोप्यनुपपन्न एव, समवायबुद्धेरनुपपत्तेः, 'अयं तन्तुः, अयं पटा, अयमनयोः समवायः' इति न जातु जानते जनाः। ____ अथ अनुमानेन अनुमीयते; हे अनुमाने-दृष्टम् , सामान्यतो 15दृष्टं च । न दृष्टम्: प्रत्यक्षव्यतिरेकात् । सामान्यतो दृष्टमपि नास्ति; तत्प्रभवकार्याऽनुपलब्धेः ।
नन्विहबुद्धिरेव समवायज्ञापिका-'इह तन्तुषु पटः इति प्रत्ययः सम्बन्धनिमित्तः, अबाधित-इहप्रत्ययत्वात् , 'इह कुण्डे दधि इति प्रत्ययवत्। किमनेन अनुमीयते-किं निमित्तमात्रम्, उत सम्बन्धः? 20यदि निमित्तमात्रम् , ततः सिद्धसाध्यतया संबोधयितव्यः । अथ सम्बन्धः; संयोगः, समवायो वा ? संयोगानुमाने उपगमहानिः । समवायानुमाने सम्बन्धव्यतिरेकः। न चान्यस्य सम्बन्धे अन्यस्यगमकत्वम् , अतिप्रसङ्गात्। न जातु देवदत्तनयनकुटसम्बन्धे यज्ञदत्तेन्द्रियं रूपादिकमर्थ करणत्वसाम्यात् प्रकाशयद् दृष्टम् । एवं 25सति सामान्यसमवायविरहे कथं द्रव्यादि व्यवस्था इति चिन्त्यते।