________________
१. न्यायसंमतस्य प्रत्यक्षलक्षणस्य परीक्षा ।
तत्पाचकसदृशोऽयम्, असौ अनेन सदृश इति विशेषादावपि द्रष्टव्यम् । अत्रापि सामान्यपरिज्ञप्तिरिति चेत्ः नः सूत्रव्याघातात्"सामान्यविशेषेषु सामान्यविशेषाऽभावात् तत एव ज्ञानम्" [ वैशे. ८।१।५ ], अनिष्ठा च विशेषेषु सामान्ये परिकल्प्यमाने सति सन्देहः, सति सन्देहे तेषु विशेषान्तरं परिकल्पनीयम्, 5 पुनः सामान्यम् इत्यनिष्ठा इत्यलम् असहाऽभिनिवेशेन ।
७
अथ भिन्नाभिन्नं सामान्यं भवद्भिः प्रतिपाद्यते - आकारभेदेन व्यक्तिभ्य उपलभ्यते इत्यर्थान्तरम्, देशभेदेन तु नैव उपलभ्यते इत्यव्यतिरिक्ते ( क्तं ); तदेतन्महासुभाषितम्, न देशभेदेनैव वस्तूनां भेदः अपि तु आकार भेदेनैव भावा भेदमुप-10 यान्ति । यथा च आकार भेदो नास्ति तथाऽनन्तरमेव निवेदितम् । [ $ ३. प्रसङ्गात् समवायस्य निरसनम् ]
सामान्यं समवायवृत्त्या व्यक्तिषु वर्त्तते इति । न चासौ विद्यते । समवायो हि-व्यावृत्तैकस्वभावः, अनुगतैकस्वभावो वा ? तद्यदि व्यावृत्तैकस्वभावः, कस्यासौ समवायः, सर्वतो व्यावृत्ते: 15 नीलादिवत् । अथ अनुगतैकस्वभावः सामान्यम् तर्हि, न समवायः, नित्यस्य सतोऽनेकत्रवृत्तेर्गोत्वादिवत्, उपपादकप्रमाणाभावाच्च । ननु प्रत्यक्षबुद्ध्यवसेयोऽसौ; तदयुक्तम्; किं सम्बन्धबुद्ध्याऽध्यवसीयते, आहोस्विद् इहबुड्या, समवायबुडया वा उच्यते ? |
20
तद्यदि सम्बन्धबुद्ध्या; कोऽयं सम्बन्धः ? किं सम्बन्धजातियुक्तः सम्बन्धः, आहोस्विद् अनेकोपादानजनितः, अनेकाश्रितो वा, सम्बन्धबुद्धिविशेषो वा, सम्बन्धबुद्ध्युत्पादको वा, सम्बद्धा(न्धा) कारो वा ? तद्यदि सम्बन्धजातियुक्तस्ते सम्बन्धः सोऽनुपपन्नः समवायाऽसम्बन्धत्वप्रसङ्गः । अथ अनेकोपादानजनित: 2 सम्बन्धः; तदा कुम्भादेरपि सम्बन्धत्वप्रसङ्गः । अथ अनेकाश्रितः
25