________________
तत्त्वोपप्लवसिंहे
स्यात् । तस्मात् स्वनैवरूपेण इतरेतरात्मना व्यावर्त्तते न जात्यादिना व्यावर्त्तते, जात्यादेरव्यावृत्तिप्रसङ्गात् । तस्मात् स्थितमेतत् नोदकव्यक्तीनां नानात्वोपपत्तिः तदनुपपत्तौ नोदकत्वं नाम सामान्यमस्ति स्वत्ववत् । 5 इतोऽपि न विद्यते सामान्यम् , नित्यस्य सतो विज्ञानजनकत्वायोगात्। तदेवकथम् ? व्युत्पाद्यते-विज्ञानजनकावस्थायां यदेव स्वरूप(पं) सामान्यात्मकं शक्तिमच्छक्तिरूपं च कारकान्तरानपेक्षयाऽजनकावस्थायां तदेव रूपम् , अतः पूर्वमपि कार्योत्पादप्रसङ्गः। अनुत्पादे वा प्रागे(गि)व इदानीमपि [न] 10जनयेत्। अथ कारकान्तरमपेक्ष्य उत्पादयति कार्यम् , किं तेन कारकान्तरेण तस्य क्रियते कारकत्वम् , ज्ञाप्यते वा? तद् व्यु( तद् यद्यु )त्पाद्यते; सुस्थितं नित्यत्वम् ! उत ज्ञायते; सिद्धं तर्हि कारकत्वम् , तदभावेऽपि विद्यमानस्याऽवद्योतनात्। भवतु नाम कारकत्वं को दोष: ? कार्योत्पत्तिप्रसङ्गः। अथ कारकत्वेऽपि 15कार्य न जनयेत् ; अहो राजाज्ञा गरीयसी नैयायिकपशोः !
इतोऽपि नास्ति सामान्यम् : तदुपपादकमानव्यतिरेकात् । ननु अस्ति प्रमाणम्-'अनयोः सादृश्यम् एषां सारूप्यम् तेन सदृशोयम् 'असो वा तेन सदृशः' इत्यादिज्ञानं सामान्यसत्तावबोधक(क) अप्रतिपन्नसामान्यस्य नोपपद्यते । अस्ति त्विदं 20 विज्ञानं बाधाविकलं जातितनुव्यवस्थापकम् ; तदेतदयुक्तम् : किं निमित्तभूतेन तेन एवंविधं ज्ञानमुत्पाद्यते, कर्मतापन्नेन वा? तद्यदि निमित्तभूतेन उत्पाद्यते तदा न सामान्यं कल्पनीयम् , असामान्यात्मकमेव निमित्तमित्थम्भूतसामान्यज्ञानोत्पादनाय, अलं सामान्यकल्पनया। अथ कर्मतापनेन उत्पाद्यते: तदसत; नैवाऽ25वभाति विज्ञाने सामान्यं धृत्तैरविपर्यासितसंविदाम् । ननु साहश्यमवभाति: सत्यम्, अवभाति, नापहूयते अपि तु-द्रव्यगुणकमात्मकं सत् पाचकादिभेदेषु-यथा एषां पाचकत्वम्, एते पाचकाः,