________________
१. न्यायसंमतस्य प्रत्यक्षलक्षणस्य परीक्षा ।
तराभावः तदा उदकादावपि समानम् उदकत्वस्याऽभावप्रसङ्गः। उदकरूपता न उदकत्वस्थ, उदकत्वरूपता च नोदक......
अथ प्रागभावः तदा उदकेऽपि उदकस्याभावप्रसङ्गः।
अथ प्रध्वंसाभावः तदा उदकेऽपि अभावप्रसङ्गः। अथ अन्यत्रास्ति; नैकत्र प्रत्यस्तमितस्य अन्यत्र संभव उपपद्यते । 5
अथ अत्यन्ताभावः तदा उदकेऽपि तस्याऽभावप्रसङ्गः।
अथ सम्बन्धाभावाद गवादावुदकत्वाभाव इति चेत् तत्रापि किम् इतरेतराभावः, प्रध्वंसाभावः, अत्यन्ताभावो वेति पूर्ववद् वक्तव्यम् । निमित्तान्तराभावाद् गवादाव(बु)दकत्वाभाव इति चेत् ; सोऽत्रापि समानः।
10 न च उदकव्यक्तीनां नानात्वमुपपादयितुं पार्यते । उदकम् अनुदकाकाराद् उदकाकारतया व्यावतते, उदकाकारात्तु कथं व्यावर्त्तते ? किम् उदकाकारतया, आहोस्विद् आकारान्तरेण ? तद्यादकाकारतया व्यावतते, तदा अन्यासामुदकव्यक्तीनाम् अनुदकाकारता प्राप्नोति रसादेरिव । अथ अनुदकाकारतया15 उदकाकारान्निवर्तते; ततो दहनादेरिव अनुदकत्वप्रसङ्गः।
अथ उदकाकाररूपताऽविशेषेऽपि अवान्तरगणिकाकारभेद परिकुप्तिरिति चेत् सत्यम्, अवान्तरगणिकाकारः तोयतादात्म्यव्यवस्थितः, अतादात्म्यव्यवस्थितो वा? तद्यदि तादात्म्यव्यवस्थितः, तदा उदकाकारतया उदकान्तराद्भिद्यते । एवं20 चान्यासामुदकव्यक्तीनामनुदकरूपता प्राप्नोति, पूर्वोदितमेव दूषणम्। ___ अथातादाम्यव्यवस्थितः तर्हि अनुदकत्वं रसादेरिव । अथ उदकत्वव्यावृत्या अनुदकाकाराद् व्यावर्त्तते; शृण्वन्तु अमी बाललपितं विपश्चितः! यादकत्वव्यावृत्त्याऽनुदकाद्व्यावर्त्तते25 तोयम् , उदकत्वं च उदका अनुदकाच कथं व्यावर्त्तते ? न जात्यन्तरं व्यावर्त्तकमस्ति। अभ्युपगमे वा अनिष्ठोपप्लवाऽनुबन्धः