________________
तत्त्वोपप्लवसिंहे
ज्ञानं चन्द्रार्कग्रहनक्षत्रतारकादिसंवेदनं च व्यभिचारि प्राप्नोति। न च तद्देशकालसंलग्नोदकप्रापकत्वमस्ति, देशस्यापि उदकवद् विनाशसंभवात् ।
. [$२. प्रसङ्गात् जातेनिराकरणम् । ] 5 नच जाते: संभवोऽस्ति । स एव कथम् ? कथ्यतेसा उदकव्यक्तिभ्योऽभिन्ना, भिन्ना, भिन्नाऽभिन्ना वेति ?
तद्यदि तादात्म्यव्यवस्थिता; तदा इह तासां नानात्वेन तस्यापि( तस्या अपि ) नानात्वोपपत्तिः, तदेकत्वे च सर्वासामेकतापत्तिः । एकत्वे च निःसामान्यता तादात्म्यविपर्यासो वा। 10 अथ अर्थान्तरभूता; सा व्यावृत्ताकारा, अनुगताकारावा? तद्यदि व्यावृत्ताकारा; न तस्याः सामान्यरूपत्वं व्यावृत्तकस्वभावत्वात् तोयादिवत् ।
अथ अनुस्यूतरूपा; तत्किम् आत्मरूपानुस्यूता, पररूपानुस्यूतावा? तद्यद्यात्मरूपानुस्यूता, तयुक्तम् ; आत्मन्यनुगमाऽ15भावात् ।
अथ पररूपानुस्यूताः केयं पररूपानुस्यूतता-किं तत्तादात्म्यम् , तत्समवायो वा? तद्यदि तादात्म्यम् : सामान्यतद्वतोरभेदप्रसङ्गः।
__ अथ पररूपसमवायः अनुस्यूताकारता; तद्युक्तम् ; सामा20न्याद्भिन्नः समवायः। सामान्यस्य अनुगतं रूपमालोचयितुमारब्धं न ततोऽन्यस्य।
यदि च उदकजातीयार्थप्राप्त्याऽव्यभिचारिता पूर्वोदितोदकविज्ञानस्य व्यवस्थाप्यते तदा उदकजातंर्गवादावपि संभवोऽस्ति गवादि प्राप्त्याऽव्यभिच(चा)रिता उदकविज्ञानस्य स्यात् । 25 अथ उदकत्वस्य गवादावभाव इति चेत् । किम् इतरेतराभावः, प्रागभावः, प्रध्वंसाभावः, अत्यन्ताभावो वा ? तचदीतरे