________________
१. न्यायसंमतस्म प्रत्यक्षलक्षणस्य परीक्षा। ३ अथ प्रतिपत्त्रपेक्षया बाधानुत्पादः-प्रतिपत्तुर्बाधकं विज्ञानं नोत्पद्यते तेन तदव्यभिचारि; तदयुक्तम् : प्रतिपत्तुर्बाधकज्ञानाऽनुत्पादेऽपि देशान्तरगमन-मरणादिना मणिमरीच्यादिविपर्ययज्ञानदर्शनात्। अथवा तद्विपर्ययज्ञानं तथाविधमेवोत्पन्नं स्वप्रभवस्वभावानुप्रवेशेन यद्बाधकविज्ञानोत्पादप्रतिबन्धकृत् तद्व-5 शोऽपि तथाभूत एव परेष्टसम्यग्ज्ञानवत्। ...एवं सति यदुक्तम्" यत्र च दुष्टं करणं यत्र च मिथ्येति प्रत्ययः स एव असमीचीनः प्रत्ययः” [ शाबरभा० १।१।५] इत्येतदेवाऽसमीचीनम्। __ अथ प्रवृत्तिसामर्थ्येन अव्यभिचारितां वेत्सि: प्रवृत्तिसामर्थ्य फलेनाऽभिसम्बन्धः, फलं च स्रक्चन्दनवनितोदकादि, तेषु10 सत्यफलनिष्पत्तेः तेषु फलोपचारः तद्देहसम्बन्धः प्रवृत्तिसामर्थ्यम्। प्रवृत्तिः कायस्था क्रिया तत्सामर्थ्यम् अव्यभिचारितां गमयति । तत्किम् अवगतम् , अनवगतं वा ? यदि नावगतम् : तद् 'अस्ति' इति कथं वेत्सि ? अथाऽवगतम् ; तवगतरव्यभिचारिता कथमवगम्यत इति पूर्वोक्तमनुसर्त्तव्यम् । 15
उदकप्राप्त्या पूर्वोत्पन्नोदकविज्ञानस्य अव्यभिचारिता व्यवस्थाप्यते; किं तत्प्रतिभातोदकप्राप्त्या, आहोस्वित् तज्जातीयोद[क]प्राप्त्या, तवंशजजलप्राप्त्या वा?
तद्यदि प्रतिभातोदकप्राप्त्या; तदयुक्तम् ; प्रतिभातोदकस्य अवस्थानं नोपपद्यते, झषमहिषपरिवर्तनाऽभिधातोपजाताऽवय-20 वक्रियान्यायेन प्रत्यस्तमयसंभवात् ।
अथ तज्जातीयोदकप्राप्त्या, एवं तर्हि असत्योदकज्ञानेऽपि जाते क्वचित्तोयमासादयन्ति पुमांसः तदप्यवितथं स्यात् । अथ तद्देशकालसंलग्नमुदकं न प्रापयति मिथ्याज्ञानम् , सम्यग्ज्ञानं तु तद्देशकालसंलग्नमुदकं प्रापयति तेन तव्यभिचारीति25 चेत् : यन्न प्रापयति तद् व्यभिचारि तर्हि मुमूर्षुपदार्थोत्पादित