________________
२
तत्त्वोपप्लवसिंहे
[१. न्यायसंमतस्य प्रत्यक्षलक्षणस्य परीक्षा | ]
अ..........
" [इ] न्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् " [ न्यायसू. १।१।४ ] इति तल्लक्षणम् । 5 [ $ १. अदुष्टकारकेत्यादिविकल्पचतुष्टयेन अव्यभिचारिपदस्य दूषणोपक्रमः । ] तच्चाव्यभिचा[ रि ] ... किमदुष्टकारकसन्दोहोत्पाद्यस्वेन, आहोस्विद् बाधारहितत्वेन, प्रवृत्तिसामर्थ्येन, अन्यथा वा? तद्यव्यदुष्टकारकसन्दोहोत्पाद्यत्वेन अव्यभिचारित्वम् सैव कारणानामदुष्टता केनावगम्यते ? न प्रत्यक्षेणः नयनकुशलादे10 रतीन्द्रियत्वात् । नाप्यनुमानेन लिंङ्गान्तराऽनवगतेः । ननु इदमेव ज्ञानं लिङ्गं तदुत्थं तस्य विशिष्टतां गमयति; यद्येवम् इतरेतराश्रयत्वं दुरुत्तरमापनीपद्यते । किञ्च इन्द्रियाणां गुणदोषाश्रयत्वे तदुत्थे विज्ञाने दोषाशङ्का नातिवर्त्तते पुंव्यापारोत्पादितशब्दविज्ञान इव ।
15 अथ बाधानुत्पत्त्याऽव्यभिचारित्वं ज्ञायते; बाधानुत्पत्तिविज्ञानस्य किं यथार्थगृहातित्वेन, आहोस्विद् बाधकज्ञानोत्पादककारक वैकल्यादिति सन्दिह्म: ? दृश्यते हि बाधकज्ञानोत्पादककारकवैकल्याद् बाधानुत्पादः, यथा दूरे मरीचिनिचये जलज्ञाने जाते बाधा न संपद्यते, अभ्यासदेशावस्थितस्य 20 कारकोपनिपाते सत्युत्पद्यते । सा चोपजायमाना संवत्सरादिकालविकल्पेन संजायते, कदाचिच्च कारकवैकल्यान्नैव सम्पद्यते । न चैतावता तस्य यथार्थता उपपद्यते ।
अपि च, बाधाविरह एव बाधासद्भावावेदकः तदुपलब्धत्वेन तत्सद्भावोपलब्धेः ।
25 अन्यच्च, बाधाविरहः किं सर्वपुरुषापेक्षया, आहोस्वित् प्रतिपत्त्रपेक्षया ? तद्यदि सर्वपुरुषापेक्षया... तद्विरहोप्य... [स]र्वज्ञाः स्युः । भवन्तु नाम सर्वे सर्वज्ञाः को दोषः ? असर्वज्ञव्यवहाराभावप्रसङ्गः ।