________________
भश्रीजयराशिप्रणीत: ॥ तत्त्वोपप्लवसिंहः ॥
[$ १. ग्रन्थकरणप्रतिज्ञा।]
......... तां यात मुन ......... [तत्त्वोपप्लवसिंह एष विषमो नूनं मया [ सृज्यते ]....
नास्ति तत्फलं वा स्वर्गादि । सत्यं, तावदा( दे )तस्य कर्मणः स भा.........
उक्तं च परमार्थविद्भिरपि"लौकिको मार्गोऽनुसर्तव्यः अति ? ]......। लोकव्यवहारं प्रति सदृशौ बालपण्डितौ ॥” इत्यादि।
[$२. बृहस्पतेस्तत्त्वचतुष्कोक्तेरपि तत्वोपप्लवपरत्वम् । ] ननु यापप्लवस्तत्त्वानां किमाया ...... " अथातस्तत्त्वं व्याख्यास्यामः " " पृथिव्यापस्तेजोवायुरिति10 तत्त्वानि तत्समुदाये शरीरेन्द्रियविषयसञ्ज्ञा" [ ] इत्यादि ? न, अन्यार्थत्वात् । किमर्थम् ? प्रतिबिम्बनार्थम् । किं . पुनरत्र प्रतिबिम्ब्यते ? पृथिव्यादीनि तत्त्वानि लोके प्रसिद्धानि, तान्यपि विचार्यमाणानि न व्यवतिष्ठन्ते किं पुनरन्यानि ?
अथ कथं तानि न सन्ति ? तदुच्यते-सल्लक्षणनिबन्धनं 15 मानव्यवस्थानम् , माननिबन्धना च मेयस्थितिः, तदभावे तयोः सद्वयवहारविषयत्वं कथं [स्वयमेव]... ताम् । अथ...न व... व्यवहारः क्रियते; तदात्मनि रूपास्तित्वव्यवहारो घटादौ च सुखास्तित्वव्यवहारः प्रवर्त्तयितव्यः ।