Book Title: Tattvatrai Mimansa Part 1 and 2
Author(s): Amarvijay
Publisher: Jain Sangh Samast
View full book text
________________
चत्वारोऽमलसंयमर्द्धिकलिता वर्या गुरुभ्रातरः
पार्थस्येव चतुर्दिगन्तविजयप्राप्तावदाता बभ्रुः ।
युक्ताः शिष्यगणेन मुक्तिविजयाद्या यस्य पात्रं धियां कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ १३ ॥ जीवानन्दसरस्वतीति विदितो वेदान्तविद् योगिराट् art वीक्ष्य दिगन्धिनन्दवसुधावर्षे (१९४०) च यन्निर्मितौ । श्रद्धाशुद्धिमवाप्य पत्र लिखेद् यं पूज्यभावान् मुदा कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ १४ ॥ ग्रंथाद् हुक्ममुनेश्चतुर्दश महाप्रश्नानि निष्कास्य नियत्त्रमयानि तानि सुरतद्रङ्गे प्रबोध्याऽङ्गिनः ।
वर्षे नेत्रयुगाशीतगुमिते (१९४२) योऽदीदिपच्छासनं कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ १५ ॥
वर्षे विक्रमतोऽग्निवेदनिधिभूसंख्ये (१९४३) सुयोगान्विते पञ्चम्या दिवसे वरे मृगशिरोमासे दले श्यामले ।
सञ्चो यं प्रददौ च सूरिपदवीं श्रीपादलिप्से पुरे कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ १६ ॥ पूषेवोदयशैलशृङ्गमनघं श्रीवीरतीर्थेशितु
द्वासप्ततिसंख्यकं क्रमगतं पठ्ठे समालम्ब्य च ।
सच्चक्राय मुदं स्म राति भगवान् गोभिः पुनानो जगत् कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ १७ ॥ कृत्वा शङ्कितमानसंश्च बहुधा प्रश्नोत्तराणि प्रभो - दृष्ट्ा तस्वभृतांस्तु सुन्दरतरान् ग्रन्थान् कृतज्ञो गुणी ।
प्रीतो होर्नल पंडितः श्रुतवतो यस्य व्यधात् संस्तवं कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ १८ ॥ श्रीमद्रावघजीसुतं सुतस्त्वविदुरं श्रीवीरचंद्राभिधं
यः संप्रेष्य नवाब्धिनन्दवसुधावर्षे (१९४९) चिकागोपुरे । विश्वेऽत्यन्तमदीदिपद् गुणनिधिः श्रीजैनधर्म परं कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ १९ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/7ed638cd7e517c24857e9418ead3983cb9f3bb5247fc0ccf031996f4024bf600.jpg)
Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 1174