Book Title: Tattvatrai Mimansa Part 1 and 2 Author(s): Amarvijay Publisher: Jain Sangh Samast View full book textPage 8
________________ चतुरविजय मुनिप्रणीता. श्रीविजयानन्दद्वात्रिंशिका. शार्दूलविक्रीडितवृत्तम् श्रेयः श्रीमय मध्यमङ्गलमयं सत्कृत्यपेटीमयं विश्वानन्दमयं लसद्रसमयं वैराग्यलीलामयम् । सर्वं यस्य नु जीवनं स्तुतिमयं नो पङ्कशङ्कामयं कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ १ ॥ स्वस्तिश्रीनिलये समृद्धिसदने सल्लोकवासस्थले देशे पञ्चनदेऽमले च लहरा ग्रामेऽभिरामे श्रिया । यः प्राच्यां दिशि वासरेश्वर इव प्रादुर्बभूवाऽवहा कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ २ ॥ तातो यस्य गणेशचन्द्र इति शूरः क्षत्रियाणां शिरोरत्नं रत्नखनिर्बभूव सुभगा श्रीरूपदेवी प्रसूः । सच्चेता गुरुदत्त सिंह इति च ज्यायान् गुणी बान्धवः कल्याणं बितनोतु वः स बिजयानन्दाभिधः सूरिराट् ॥ ३ ॥ श्रीमद्विक्रमवत्सरेऽनलनवाऽष्टैणाङ्कसंख्ये (१८९३) शुभे चैत्रे मासि सिते दले सुरगुरोर्वारे तिथौ पक्षतौ । सीकोऽवततार यो हरिरिवाऽपायाजनान् रक्षितुं कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ ४ ॥ लग्नं यस्य च कुम्भराशिरमला भानुज्ञशुक्रस्थितिवित्ते राहुनिशाचरौ सहजगौ षष्ठे गुरुक्षोणिजौ धर्मे केतुशनैश्वरौ तु वणिजि स्फुर्जलौ संस्थितौ कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराद् ॥ ५ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 1174