SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ चतुरविजय मुनिप्रणीता. श्रीविजयानन्दद्वात्रिंशिका. शार्दूलविक्रीडितवृत्तम् श्रेयः श्रीमय मध्यमङ्गलमयं सत्कृत्यपेटीमयं विश्वानन्दमयं लसद्रसमयं वैराग्यलीलामयम् । सर्वं यस्य नु जीवनं स्तुतिमयं नो पङ्कशङ्कामयं कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ १ ॥ स्वस्तिश्रीनिलये समृद्धिसदने सल्लोकवासस्थले देशे पञ्चनदेऽमले च लहरा ग्रामेऽभिरामे श्रिया । यः प्राच्यां दिशि वासरेश्वर इव प्रादुर्बभूवाऽवहा कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ २ ॥ तातो यस्य गणेशचन्द्र इति शूरः क्षत्रियाणां शिरोरत्नं रत्नखनिर्बभूव सुभगा श्रीरूपदेवी प्रसूः । सच्चेता गुरुदत्त सिंह इति च ज्यायान् गुणी बान्धवः कल्याणं बितनोतु वः स बिजयानन्दाभिधः सूरिराट् ॥ ३ ॥ श्रीमद्विक्रमवत्सरेऽनलनवाऽष्टैणाङ्कसंख्ये (१८९३) शुभे चैत्रे मासि सिते दले सुरगुरोर्वारे तिथौ पक्षतौ । सीकोऽवततार यो हरिरिवाऽपायाजनान् रक्षितुं कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ ४ ॥ लग्नं यस्य च कुम्भराशिरमला भानुज्ञशुक्रस्थितिवित्ते राहुनिशाचरौ सहजगौ षष्ठे गुरुक्षोणिजौ धर्मे केतुशनैश्वरौ तु वणिजि स्फुर्जलौ संस्थितौ कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराद् ॥ ५ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005563
Book TitleTattvatrai Mimansa Part 1 and 2
Original Sutra AuthorN/A
AuthorAmarvijay
PublisherJain Sangh Samast
Publication Year1932
Total Pages1174
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy