SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ संप्राप्ते दशमेऽह्नि जन्मसमयाद् यस्य व्यतीताशुचौ सानन्दं समहोत्सवं परिजनं सन्तोष्य भोज्यादिभिः। ___ आत्माराम इति प्रमोदबहुलस्तातोऽभिधां तेनिवान् कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ ६ ॥ संसगं समवाप्य ढुंढकमते दीक्षां वलक्षाशयो यः कक्षीकुरुते स खेन्दुनवभूवर्षे (१९१०) शुभे वैक्रमे । आज्ञा मातुरवाप्य च स्वजनके गत्यन्तरं संश्रिते कल्याणं वितनोतु वः स विजयानन्दाभिधः सरिराट् ॥ ७ ॥ योऽधीते स शतत्रयं मतिमतामयः प्रयासं विना श्लोकानां प्रतिवासरं जपतपोध्यानादिलीनोऽपि वै । दृष्टं विसरते च नो सकृदपि प्रायेण सूत्रादिकं कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ ८॥ द्वात्रिंशद् धिषणाधरीकृतकविर्योऽधीत्य सूत्राणि तच्छङ्काशीलमनाश्च लुम्पकमतं मत्वा मनःकल्पितम् । . अत्याक्षीद् रदनन्दशीतगुमिते (१९३२) संवत्सरेऽमत्सरी कल्याणं वितनोतु वः स विजयानन्दाभिधः मूरिराट् ॥९॥ - येनोत्सूत्रवचःप्ररूपणरतश्चैकान्तपक्षाग्रही विख्यातो भुवि शान्तिसागर इति त्यक्तव्रतो लिङ्गभाक् । . चर्चायां निरलोठि राजनगरे स्याद्वादविद्याविदा कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ १० ॥ तत्रैवोदितपुण्यदौकितमिवाऽनेकान्तमार्गाग्रणीं स्फुर्जत्सद्गुणिनं च बुद्धिविजयं संप्राप्य यः सद्गुरुम् । हित्वा ढूंढकपन्थमुत्तममतिः संविज्ञदीक्षामधात् कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ ११ ॥ चन्द्रः षोडशभिः कलाभिरिव यो युक्तोऽनगारैर्महोभृद्भिर्लुम्पकपन्थवादलदलप्रच्छादनत्यागतः __ अत्यन्तं तपगच्छतारकपथेऽदीपिष्ट शिष्टाग्रणी: कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ १२ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005563
Book TitleTattvatrai Mimansa Part 1 and 2
Original Sutra AuthorN/A
AuthorAmarvijay
PublisherJain Sangh Samast
Publication Year1932
Total Pages1174
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy