SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ चत्वारोऽमलसंयमर्द्धिकलिता वर्या गुरुभ्रातरः पार्थस्येव चतुर्दिगन्तविजयप्राप्तावदाता बभ्रुः । युक्ताः शिष्यगणेन मुक्तिविजयाद्या यस्य पात्रं धियां कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ १३ ॥ जीवानन्दसरस्वतीति विदितो वेदान्तविद् योगिराट् art वीक्ष्य दिगन्धिनन्दवसुधावर्षे (१९४०) च यन्निर्मितौ । श्रद्धाशुद्धिमवाप्य पत्र लिखेद् यं पूज्यभावान् मुदा कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ १४ ॥ ग्रंथाद् हुक्ममुनेश्चतुर्दश महाप्रश्नानि निष्कास्य नियत्त्रमयानि तानि सुरतद्रङ्गे प्रबोध्याऽङ्गिनः । वर्षे नेत्रयुगाशीतगुमिते (१९४२) योऽदीदिपच्छासनं कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ १५ ॥ वर्षे विक्रमतोऽग्निवेदनिधिभूसंख्ये (१९४३) सुयोगान्विते पञ्चम्या दिवसे वरे मृगशिरोमासे दले श्यामले । सञ्चो यं प्रददौ च सूरिपदवीं श्रीपादलिप्से पुरे कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ १६ ॥ पूषेवोदयशैलशृङ्गमनघं श्रीवीरतीर्थेशितु द्वासप्ततिसंख्यकं क्रमगतं पठ्ठे समालम्ब्य च । सच्चक्राय मुदं स्म राति भगवान् गोभिः पुनानो जगत् कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ १७ ॥ कृत्वा शङ्कितमानसंश्च बहुधा प्रश्नोत्तराणि प्रभो - दृष्ट्ा तस्वभृतांस्तु सुन्दरतरान् ग्रन्थान् कृतज्ञो गुणी । प्रीतो होर्नल पंडितः श्रुतवतो यस्य व्यधात् संस्तवं कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ १८ ॥ श्रीमद्रावघजीसुतं सुतस्त्वविदुरं श्रीवीरचंद्राभिधं यः संप्रेष्य नवाब्धिनन्दवसुधावर्षे (१९४९) चिकागोपुरे । विश्वेऽत्यन्तमदीदिपद् गुणनिधिः श्रीजैनधर्म परं कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ १९ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005563
Book TitleTattvatrai Mimansa Part 1 and 2
Original Sutra AuthorN/A
AuthorAmarvijay
PublisherJain Sangh Samast
Publication Year1932
Total Pages1174
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy