SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ चक्रे जैनमतानुयायिन इह प्रायः सहस्रांस्तनुभाजां पंचदश प्रबोध्य विदुषां वो विदृत्याऽवनौ । यः क्षान्त्यार्जवमार्दवादिगुणभाक् निर्ग्रन्थचूडामणिः कल्याणं वितनोतु वः स विजयानन्दाभिधः सरिराट् ॥ २० ।। श्रीहुस्यारपुरे पुरेऽमृतसरोऽभिरव्ये च जीराभिधे पट्यां सन्वतराभिधे च नगरे जैनप्रतिष्ठाविधिम् । बिम्बानां बहुशस्तथाऽञ्जनशलाका यो व्यधात् शुद्धधीः कल्याणं वितनोतु वः स विजयानन्दाभिधः मूरिराट ॥ २१ ॥ कीर्ति यस्य निशम्य सद्गुणनिधे राज्ञी च विक्टोरिया ऋग्वेदं परिपूर्णमांग्लसदसा मुद्रापितं सादरम् । ___वद्रव्यव्ययतो विशुद्धहृदया यं प्राभृतीचऋषी कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ २२ ॥ सौम्यत्वेन विधं धियाऽमरगुरुं स्थैर्येण हेमाचल दिङ्नागान् यशसा रविं च महसी रूपश्रिया मन्मथम् । । ___ गाम्भीर्येण जिगाय वारिधिमरं गत्या मरालं च यः कल्याणं वितनोतु वः स विजयानन्दाभिधः सूरिराट् ॥ २३ ॥ यद्वाक्शीतलतागुणस्य समता नाऽभ्येति गाङ्गं पयो नो वा चन्द्रमरीचयो नच सुधा श्रीखण्डलेपोऽपि नो । ____ नाऽम्भोज मलयाचलस्य च मरुन्नैवाङ्गना न वा कल्याणं वितनोतु वः स विजयानन्दामिधः सरिराट् ॥ २४ ॥ यस्मिन् गर्जति संसदङ्गणभुवि प्रोन्मादिनो वादिनी दर्प तत्यजुरम्बरे दिनमणौ घूका इव स्फुर्जति । - अयोधाम युगप्रधानपदवीयोग्यो गुणानां खनिः कल्याणं वितनोतु वः स विजयानन्दाभिधः सरिसट् ॥ २५ ॥ - शुद्धाचारषुषः सुदुर्मतिमुषः स्याद्वादविधाजुषः श्रद्धाशुद्धिंसपेयुषो गतरुषो जैनोअतिं चक्रुषः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005563
Book TitleTattvatrai Mimansa Part 1 and 2
Original Sutra AuthorN/A
AuthorAmarvijay
PublisherJain Sangh Samast
Publication Year1932
Total Pages1174
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy