Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text ________________
( ३ ) श्रीतत्त्वार्थभाष्योपरि श्रीहरिभद्रसूरीश्वराणां लघुटीका सार्द्धपञ्चाध्यायं यावत्,
शेष टीका तु यशोभद्रसूरिणा पूरिता । ( ४ ) तत्त्वार्थटिप्पणम्-चिरन्तनमुनि विरचितम् । ( ५ ) भाष्यतर्कानुसारिणी टीका-महोपाध्याय यशोविजय विरचिता। ( ६ ) गूढार्थदीपिका-विजयदर्शनसूरीश्वरविरचिता। - ... (७) तत्त्वार्थत्रिसूत्री प्रकाशिका-श्रीमल्लावण्यसूरीश्वरविरचिता । (८) सुबोधिका, हिन्दीविवेचनामृतम्-प्राचार्यप्रवरश्री सुशीलसूरीश्वर विरचितम् । ( ६ ) गुर्जरभाषा विवेचनम्-मुनिश्रीराजशेखरविरचितम् । (१०) पण्डितश्रीसुखलालेनापि तत्त्वार्थस्य गुर्जरभाषायां विशदं विवेचनं कृतम् । (११) दिगम्बराचार्यपूज्यपादविरचिता-सर्वार्थसिद्धिः टीका । (१२) प्रकलंकदेवाचार्यविरचिता-राजवात्तिकटीका । (१३) श्लोकवार्तिकटीका-विद्यानन्दिविरचिता। (१४) तत्त्वार्थस्य एकाटीका 'श्रुतसागरी' अपि अस्ति । प्राचार्यश्रीमद्विजयसुशीलसूरीश्वरः
अष्टोत्तरशतमहनीयग्रन्थलेखकाः संस्कृत-प्राकृतमर्मज्ञाः स्वनामधन्या प्राचार्यप्रवरा श्रीमद्विजयसुशील-सूरीश्वराः साम्प्रतं वृद्धावस्थायामपि सत्साहित्यसर्जनेऽनवरतं तल्लीनाः विराजन्ते ।
भवतां जन्म गुर्जरप्रान्तस्य 'चाणस्मा'-नामके ग्रामे वि.सं. १९७३ तमे वर्षेऽभवत् । मातुर्नाम चञ्चलदेवी पितुर्नाम चतुरभाईताराचन्द मेहता अस्ति । एष दशवर्षस्य लघुवयसि संयममार्गमनुसरितु प्रबल-भावुकोऽभवत् । पञ्चदश-वर्षस्यावस्थायां वि.सं. १९८८ तमे वर्षे श्रीमद्विजयलावण्यमुनीश्वरेण दीक्षितः। वि.सं. १९८८ तमे वर्षे एवास्य वृहती दीक्षा शासनसम्राट-श्रीमद्विजयनेमिसूरीश्वर-करकमलाभ्यां सम्पन्ना। वि.सं. २००७ तमे वर्षे गरिण-पन्यास-पदवीभ्यामलङ्कृतोऽभवत् । वि.सं. २०२१ तमे वर्षे मुण्डाराग्रामे उपाध्यायाचार्यपदवीभ्यां महिमामण्डितोऽभवत् । शास्त्रविशारद-साहित्यरत्न-कविभूषण-पदवीभिरपि समलङ्कृतोऽभवदेष सिद्धहस्तलेखकः । जैसलमेरतीर्थे श्रीसंघेन जैनदिवाकरोपाधिनापि सभाजितोऽयम् । तीर्थप्रभावकाचार्योऽयं
Loading... Page Navigation 1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 264