Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text ________________
( ४ ) उमास्वातिविरचित-'जम्बूद्वीपसमासप्रकरणस्य वृत्तौ विजयसिंहसूरीश्वरेणास्य महर्षेतुिर्नाम 'उमा' लिखितम् । एतावता मातृपितृसम्बन्धात् 'उमास्वाति' नाम प्रसिद्धम् ।
तत्त्वार्थाधिगमसूत्रस्य भाष्ये सुस्पष्टमुल्लेखः प्राप्यते यत् उमास्वातिमहाराजः उच्चनागरीशाखायाः प्रासीत् । उच्च नागरीशाखा भगवतो महावीरस्य पट्टपरम्परायां समागतस्य प्रार्यदिन्नस्य शिष्यात् पार्यशान्ति-श्रेणिक-समयात् प्रारब्धा। अतः वाचकमहर्षिः उमास्वातिमहाराजः विक्रमस्य प्रथमशताब्दीतः प्रारभ्य चतुर्थशताब्दी यावत् कालक्रमे समुत्पन्नः । अर्थात् विक्रमस्य प्रथमचतुर्थशताब्द्योर्मध्ये तस्य स्थितिकालोऽनुमीयते। विषयेऽस्मिन् निश्चप्रचत्वे किमपि वक्तु लिखितु च न शक्यते ।
तत्त्वार्थाधिगमस्य महत्ता :
जैनागमस्य सकलं प्रामाणिक सौरस्यं समादाय सन्दब्धमिदं ग्रन्थ रत्नं श्वेताम्बरदिगम्बर-परम्परायां समानरूपेण सादरं प्रशंसापदवीं प्राप्य विराजतेतराम् । अस्य ग्रन्थस्य दशाध्यायाः सन्ति । तेषु ३४४ सूत्राणि समुल्लसन्ति जैनागमसिद्धान्त सौरभमादाय । सकलेषु सूत्रेषु सूत्रलक्षणं सुदृढतया समुपजृम्भते। सूत्रस्य लक्षणं तावत्
अल्पाक्षरमसंदिग्धं सारवद् विश्वतो मुखम् ।
अस्तोभमनवद्यञ्च, सूत्रं सूत्रविदो विदुः ॥ सूत्रस्य प्रामाणिकमिदं लक्षणं तत्त्वार्थाधिगमसूत्रे प्रतिपन्नमास्ते । अल्पाक्षरता, असंदिग्धता, व्यापकता, सारवत्ता, प्रस्तोभत्वं पवित्रता च सर्वत्र विराजते-अतो विशुद्धोऽयं सूत्रग्रन्थः। परिष्कृता भाषायोजना स्फुटसंकेतसमन्विताः-सम्प्रेषणशैली विदुषां मनांसि सहसैवावर्जयति ।
अस्य ग्रन्थरत्नस्य प्रथमेऽध्याये पञ्चत्रिंशत् सूत्राणि सन्ति । तत्र शास्त्रस्य प्राधान्यं, सम्यग्दर्शनलक्षणम् सम्यक्त्वोत्पत्तिः, तत्त्वनामानि, तत्त्वविवेचना, ज्ञानस्वरूपं सप्तनयस्वरूपादीनां वर्णनानि सन्ति ।
द्वितीयेऽध्याये द्विपञ्चाशत् (५२) सूत्राणि सन्ति । अस्मिन् अध्याये जीवलक्षणम् औपशमिकादिभावानां ५३ भेदाः, जीवभेदाः, इन्द्रिय-गति-शरीरायुष्यस्थितीत्यादीनां वर्णनमस्ति ।
Loading... Page Navigation 1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 264