Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06 Author(s): Vijaysushilsuri Publisher: Sushil Sahitya Prakashan Samiti View full book textPage 9
________________ तत्वार्थभूमिका , वैदिकपरम्परायां यत्स्थानं वेदानाम्, बौद्धपरम्परायां यत्स्थानं त्रिपिटकानाम्, ईसाईपरम्परायां यत्स्थानं 'बाईबिल' - ग्रन्थस्य इस्लामपरम्परायां यत्स्थानं कुरानस्य तदेव स्थानं, जैन-परम्परायाम् श्रागमानां प्रस्ति । सर्वेषामागम सिद्धान्तानां प्रामाणिकसारांश-सुधासंपृक्त ं सर्वाङ्गपूर्ण ग्रन्थरत्नं समुल्लसति 'श्रीतत्त्वार्थाधिगमसूत्रम्' । अस्य तत्त्वार्थाधिगमसूत्र - ग्रन्थरत्नस्य प्रणेता पदवाक्यपारावारीणो महर्षिः वाचकप्रवरः श्री उमास्वातिमहाराजः श्रासीत् । अस्य कालनिर्णयस्तु सम्यक्तया नावधारयितुं शक्यते विदुषां विसंवादात् किन्तु श्रीतत्त्वार्थसूत्रभाष्यप्रशस्तौ प्राप्तेषु पञ्चसु श्लोकेषु महर्षेः परिचयः प्राप्यते वाचकमुख्यस्य शिव श्रियः प्रकाशयशसः प्रशिष्येण । शिष्येण घोषनन्दि - क्षमणस्यैकादशाङ्ग विदः ॥ वाचनया च महावाचक - क्षमरण मुण्डपादशिष्यस्य । शिष्येण वाचकाचार्य - मूलनाम्नः प्रथितकीर्तेः ॥ न्यग्रोधिकाप्रसूतेन विहरता पुरवरे कुसुमनाम्नि । कभी रिना स्वाति-तनयेन वात्सीसुतेनार्घ्यम् ।। अर्हद्वचनं सम्यग्गुरुक्रमेणागतं समुपधार्यं । दुखात्तं च दुरागम-विहतमति लोकमवलोक्य || इदमुच्चैर्नागरवाचकेन सत्त्वानुकम्पया दृब्धम् । तत्त्वार्थाधिगमाख्यं स्पष्टमुमास्वातिना शास्त्रम् ।। यस्तत्त्वाधिगमाख्यं, ज्ञास्यति च करिष्यते च तत्रोक्तम् । सोऽव्याबाधसुखाख्यं प्राप्स्यत्यचिरेण परमार्थम् ॥ - तत्त्वार्थाधिगमप्रणेतुर्मातुर्नाम वात्सी पितुश्च नाम स्वातिरासीत् । शिवश्रियः प्रशिष्यः घोषनन्दिनः शिष्योऽभूत् । वाचनागुरोरपेक्षयाऽयं क्षमाश्रमणस्य एष महर्षिः पादस्य प्रशिष्यो, मूलनामकवाचकाचार्यस्य शिष्यः आसीत् । कायामभवत् । अस्य जन्म न्यग्रोधिPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 264