________________
तत्वार्थभूमिका
,
वैदिकपरम्परायां यत्स्थानं वेदानाम्, बौद्धपरम्परायां यत्स्थानं त्रिपिटकानाम्, ईसाईपरम्परायां यत्स्थानं 'बाईबिल' - ग्रन्थस्य इस्लामपरम्परायां यत्स्थानं कुरानस्य तदेव स्थानं, जैन-परम्परायाम् श्रागमानां प्रस्ति । सर्वेषामागम सिद्धान्तानां प्रामाणिकसारांश-सुधासंपृक्त ं सर्वाङ्गपूर्ण ग्रन्थरत्नं समुल्लसति 'श्रीतत्त्वार्थाधिगमसूत्रम्' ।
अस्य तत्त्वार्थाधिगमसूत्र - ग्रन्थरत्नस्य प्रणेता पदवाक्यपारावारीणो महर्षिः वाचकप्रवरः श्री उमास्वातिमहाराजः श्रासीत् । अस्य कालनिर्णयस्तु सम्यक्तया नावधारयितुं शक्यते विदुषां विसंवादात् किन्तु श्रीतत्त्वार्थसूत्रभाष्यप्रशस्तौ प्राप्तेषु पञ्चसु श्लोकेषु महर्षेः परिचयः प्राप्यते
वाचकमुख्यस्य शिव श्रियः प्रकाशयशसः प्रशिष्येण । शिष्येण घोषनन्दि - क्षमणस्यैकादशाङ्ग विदः ॥ वाचनया च महावाचक - क्षमरण मुण्डपादशिष्यस्य । शिष्येण वाचकाचार्य - मूलनाम्नः प्रथितकीर्तेः ॥ न्यग्रोधिकाप्रसूतेन विहरता पुरवरे कुसुमनाम्नि । कभी रिना स्वाति-तनयेन वात्सीसुतेनार्घ्यम् ।। अर्हद्वचनं सम्यग्गुरुक्रमेणागतं समुपधार्यं । दुखात्तं च दुरागम-विहतमति लोकमवलोक्य || इदमुच्चैर्नागरवाचकेन सत्त्वानुकम्पया दृब्धम् । तत्त्वार्थाधिगमाख्यं स्पष्टमुमास्वातिना शास्त्रम् ।। यस्तत्त्वाधिगमाख्यं, ज्ञास्यति च करिष्यते च तत्रोक्तम् । सोऽव्याबाधसुखाख्यं प्राप्स्यत्यचिरेण परमार्थम् ॥
-
तत्त्वार्थाधिगमप्रणेतुर्मातुर्नाम वात्सी पितुश्च नाम स्वातिरासीत् । शिवश्रियः प्रशिष्यः घोषनन्दिनः शिष्योऽभूत् । वाचनागुरोरपेक्षयाऽयं क्षमाश्रमणस्य
एष महर्षिः
पादस्य प्रशिष्यो, मूलनामकवाचकाचार्यस्य शिष्यः आसीत् । कायामभवत् ।
अस्य जन्म न्यग्रोधि