Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text ________________
तृतीयेऽध्याये अष्टादशसूत्राणि (१८) सन्ति । अस्मिन् सप्तपृथ्वीनां नरकजीवानां वेदना, आयुष्यम्, मनुष्यक्षेत्रवर्णनं तिर्यञ्चजीवभेदस्थित्यादीनां प्रतिपादनमस्ति ।
चतुर्थेऽध्याये त्रिपञ्चाशत् (५३) सूत्राणि सन्ति । अत्र देवलोकस्य, देवर्डीनां तथा तेषां जघन्योत्कृष्टायुष्यवर्णनम् अस्ति ।
पञ्चमेऽध्याये चतुश्चत्वारिंशत् (४४) सूत्राणि सन्ति । अत्र धर्मास्तिकायादीनाम् अजीवतत्त्वनिरूपणम्, षड्व्व्यवर्णनम् अस्ति । जैनदर्शने षड्द्रव्याणि स्वीकृतानि तेषु एकं जीवद्रव्यं शेषाणि पश्चाजीवद्रव्याणि सन्ति ।
षष्ठेऽध्याये षड्विंशति (२६) सूत्राणि सन्ति । अत्र प्रास्रवतत्त्वस्य कारणानां विशदीकरणं स्पष्टरीत्या वर्तते । अस्य प्रवृत्तिः योगानां प्रवृत्त्या भवति । योगाः पुण्यपापयोर्बन्धका भवन्ति । अतएव प्रास्रवे पुण्यपापयोः समावेश-कृतो दृश्यते ।
सप्तमेऽध्याये चतुस्त्रिशत् सूत्राणि (३४) सन्ति । अस्मिन् देशविरति-सर्वविरतिव्रतानां तेषामतिचाराणां वर्णनं समुल्लसति ।
अष्टमेऽध्याये षड्विंशति-सूत्राणि सन्ति । अस्मिन् मिथ्यात्वनिरूपणपुरस्सरं बन्धतत्त्वनिरूपणमस्ति।
नवमेऽध्याये नवचत्वारिंशत्-सूत्राणि सन्ति । अस्मिन् संवर-निर्जरातत्त्व निरूपणमस्ति ।
दशमेऽध्याये सप्तसूत्राणि (७) सन्ति । अस्मिन् मोक्षतत्त्ववर्णनमस्ति ।
उपसंहारे द्वात्रिंशत् [३२] श्लोकाः सिद्धस्वरूपस्य सुललितं वर्णनम्, प्रान्ते प्रशस्तिश्लोकाः (६) सन्ति । तैः सार्धमेव ग्रन्थपरिसमाप्तिः कृता। तत्त्वार्थसूत्रस्य भाष्य-टीकाग्रन्थाः
महनीयस्यास्य ग्रन्थ रत्नस्य सम्प्रति मुद्रिता अनेके ग्रन्थाः सन्ति । तेषां नामानीत्थम्(१) श्रीतत्त्वार्थाधिगमभाष्यम्-उमास्वातिमहाराजविरचिता स्वोपज्ञरचना। (२) श्री सिद्धसेन गणि विरचिता भाष्यानुसारिणी टीका। एषा टीका प्रतीव
विशदरूपेण विराजते ।
Loading... Page Navigation 1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 264