________________
TATTVĀRTHA SŪTRA
वितर्कः श्रुतम् ॥४५॥ विचारोऽर्थव्यञ्जनयोगसंक्रान्तिः ॥४६॥ सम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शनमोहक्षपकोपशमकोपशान्तमोहक्षपकक्षीणमोहजिनाः क्रमशोऽसङ्ख्येयगुणनिर्जराः ॥४७॥ पुलाकबकुशकुशीलनिर्ग्रन्थस्नातका निर्ग्रन्थाः ॥४८॥ संयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपातस्थानविकल्पतः साध्याः ॥४९॥
दशमोऽध्यायः
मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम् ॥१॥ बन्धहेत्वभावनिर्जराभ्याम् ॥२॥ कृत्स्नकर्मक्षयो मोक्षः ॥३॥
औपशमिकादिभव्यत्वाभावाच्चान्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः ॥४॥ तदनन्तरमूर्ध्वं गच्छत्या लोकान्तात् ॥५॥ पूर्वप्रयोगादसङ्गत्वाबन्धछेदात्तथागतिपरिणामाच्च तद्गतिः ॥६॥ क्षेत्रकालगतिलिङ्गतीर्थचारित्रप्रत्येकबुद्धबोधितज्ञानावगाहनान्तरसङ्ख्याल्पबहुत्वतः साध्याः ॥७॥
२९. लेश्योपपादस्था' - स. रा. श्लो । १. 'भ्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः ॥ २ ॥ - स. रा. श्लो. ।
२. In place of it स. रा. and श्लो. have two aphorisms : 'औपशमिकादिभव्यत्वानां च' and 'अन्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः'.
३. 'तद्गतिः' is missing in स. रा. and श्लो॰, and they also have after
aphorism two more-viz. 'आविद्धकुलालचक्रवद्व्यपगतलेपालाबुवदेरण्डबीजवदग्निशिखावच्च' and 'धर्मास्तिकायाभावात्'. The sense of these latter two aphorisms is already conveyed in the Bhāsya. After this aphorism fe has an aphorism 'धर्मास्तिकायाभावात्'.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org