Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 496
________________ ज्ञप्तौ स्वतः ] न्यायप्रकार :४४५: णमात्रप्रयुक्तसन्निधिका नत्वप्रामाण्ये निमित्ता इत्यपि तुल्यत्वात् दोषाभावस्य तुच्छस्य गुणनिष्पाद्यत्वासम्भवाच्च, सस्वभावत्वे वा व्यतिरिक्तत्वे कारकव्यापारस्यासम्भवः स्यादपसिद्धान्तश्च प्रसज्येत, तथा च पर्युदासवृत्त्या गुणात्मक एव दोषाभावोऽभ्युपगन्तव्यः तथा गुणाभावोऽपि दोषात्मकः, इति युक्तं गुणदोषाभ्यां प्रामाण्याप्रामाण्ये इति भावः ।। ___ ननु प्रमाणं प्रामाण्यनिश्चये नान्यापेक्षं यदि ह्यपेक्षेत तत्तदा किं गुणान् संवाद 5 वाऽपेक्षेत, नाद्यः, स्वकारणगुणानां प्रत्यक्षादिप्रमाणाग्राह्यत्वात् यदि यो यः कार्यविशेषः स गुणवत्कारणपूर्वको यथा प्रासादादिविशेषः, . कार्यविशेषश्च यथावस्थितपरिच्छेद इति स्वभावहेतुना गुणवत्कारणपूर्वकत्वं सिद्ध्यतीत्युच्यते तदपि न युक्तम् , परिच्छेदे यथावस्थितार्थपरिच्छेदत्वासिद्धेः, तथा हि शुद्धकारकजन्यत्वेन संवादित्वेन बाधारहितत्वेनार्थतथात्वेन वा तत्सिद्धिर्वाच्या, तच्च न सम्भवति, परिच्छेदस्य यथावस्थितार्थपरिच्छेदत्वे गुणवत्कारण- 10 जन्यत्वस्य गुणवत्कारणजन्यत्वे च यथावस्थितार्थपरिच्छेदत्वस्यापेक्षितत्वेन प्रथमेऽन्योऽन्याश्रयात् संवादार्थिनां विज्ञाने यथावस्थितार्थपरिच्छेदत्वसिद्धिमन्तरेण तत्पूर्वकप्रवृत्तः प्रवृत्तिमन्तराऽऽर्थक्रियासंवादस्य तं विना यथावस्थितार्थपरिच्छेदत्वसिद्धेश्चासम्भवेन द्वितीये चक्रकापत्तेः, न तृतीयः, तुच्छस्वभावस्य बाधाविरहस्य सत्त्वेन ज्ञापकत्वेन वाऽनङ्गीकारात् पर्युदासवृत्त्या तदन्यज्ञानलक्षणस्य विज्ञानपरिच्छेदविशेषाविषयत्वेन तद्व्यवस्थापकत्वानुप. 15 पत्तेश्च । नापि चतुर्थः, अन्योन्याश्रयात् , अर्थतथाभावे सिद्धे तद्विज्ञानस्यार्थतथाभावपरिच्छेदत्वसिद्धिः, तत्सिद्धेश्वार्थतथाभावसिद्धिरिति । नापि संवादापेक्षया तज्ज्ञप्तिसिद्धिः, संवादक समानजातीयं भिन्नजातीयं वा, यदि समानजातीयं तर्हि एकसन्तानप्रभवं भिन्नसन्तानप्रभवं वा, तत्र भिन्नसन्तानप्रभवस्य समानजातीयस्य संवादकत्वे देवदत्तघटविज्ञानं प्रति यज्ञदत्तघटान्तरविज्ञानस्यापि संवादकत्वं स्यात् , समानसन्तानप्रभवसमानजातीयज्ञानान्तरस्य 20 संवादकत्वे च तस्यैकार्थविषयकत्वे संवाद्यसंवादकयोरविशेषः, एकविषयत्वेऽपि यथा प्राक्तनं विज्ञानं स्वसमानजातीयस्यैकसन्तानप्रभवस्योत्तरकालभाविनो विज्ञानस्य न संवादकं तथोत्तरमपि पूर्वस्येति, किञ्चोत्तरज्ञानं प्रमाणमिति कुतस्सिद्धं येन प्रथमस्य प्रामाण्यनिश्चा १. ननु नैर्मल्यादयो गुणाः प्रामाण्येऽनुपयोगिनः किन्तु तेभ्यो दोषाणामभावः समुन्मिषतीत्यत्राह दोषाभावस्येति, तस्य तुच्छस्वभावतया कार्यत्वधर्माधारत्वं न भवेदिति भावः, अवश्यमनुभूयते दोषाभावस्य कार्यस्वाधारत्वम् , अञ्जनादेश्चक्षुरादौ क्रियमाणस्य प्रतीतेः, तथा च दोषाभावस्य दोषप्रतियोगिगुणस्वरूपत्वं वाच्यं, व्यतिरिक्तत्वेऽनुभवबाधापत्तेः, अनुभूयते च पुरा चक्षुषी सदोषे समभूतामधुना लब्धिसम्पन्ने इति । यदि दोषाभावो निःस्वभावः स्यात्तर्हि भावान्तरविनिमुक्तस्य भावस्यैवाभावत्वप्रतिपादकत्वत्सिद्धान्तविरोध इत्याशयेनाह सस्वभावत्वे वेति ॥

Loading...

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676