Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 652
________________ द्वाराणि] न्यायप्रकाशसमलते पुलाकबकुशप्रतिसेवनाकुशीला उत्कर्षेणानूनकाक्षराणि दशपूर्वाणि श्रुतानि धारयन्ति, कषायकुशीला निर्ग्रन्थाश्च चतुर्दशपूर्वधराः, जघन्येन पुलाकानां श्रुतमाचारवस्तु, बकुशकुशीलनिर्ग्रन्थानामष्टौ प्रवचनमातरः, स्नातकास्तु श्रुतरहिताः केवलज्ञानवत्त्वात् ॥ . .. पुलाकेति । अनूनेति, एकेनाप्यक्षरेणान्यूनानि दशपूर्वाणीत्यर्थः । कषायेति चतुर्दशेति, 5 उत्कर्षेणेदं बोध्यम् , आचारवस्त्विति, नवमपूर्वान्तःपातितृतीयमाचारवस्तु यावत्तेषां श्रुतमित्यर्थः । अष्टौ प्रवचनमातर इति, एतत्पालनरूपत्वाचारित्रस्य, तथा च चारित्रिभिरवश्यं तावज्ज्ञानवद्भिर्भवितव्यं चारित्रस्य ज्ञानपूर्वकत्वात् तज्ज्ञानश्च श्रुतादिति तेषामष्टप्रवचनमातृप्रतिपादनपरं श्रुतं बोध्यम् , अवशिष्टं मूलं स्फुटार्थम् ॥ प्रतिसेवनाद्वारमाह . . 10 क्षपाभोजनविरतिसहितपञ्चमूलगुणानामन्यतमं बलात्कारेण प्रतिसेवते पुलाका, बकुशो मूलगुणाविराधक उत्तरगुणांशे विराधकः, प्रतिसेवनाकुशीलो मूलगुणाविराधक उत्तरगुणेषु काश्चिद्विराधनां प्रतिसेवते, कषायकुशीलनिर्ग्रन्थस्नातकानां प्रतिसेवना नास्ति ॥ क्षपाभोजनेति । बलात्कारेणेति राजादिकृतबलात्कारेण न तु स्वरसत इति तत्त्वार्थ- 15 भाष्यानुसारेण । भगवत्यनुसारेण पश्चानां महाव्रतानामन्यतमं प्रतिसेवेत, उत्तरगुणान् प्रतिसेवमानो दशविधप्रत्याख्यानान्यतमं प्रतिसेवेतेति, उत्तरगुणांशे विराधक इति, दशविधप्रत्याख्यानान्यतमं विराधयतीत्यर्थः । काश्चिदिति तत्त्वार्थभाष्यानुसारेणेदम् , भगवत्यान्तु प्रतिसेवनाकुशीलः पुलाकवदुक्तः ॥ तीर्थद्वारमाह 20 पुलाकादयस्सर्वे सर्वेषां तीर्थकृतां तीर्थेषु भवन्ति ॥ __ पुलाकादय इति । तरन्त्यनेनेति तीर्थ प्रवचन प्रथमगणधरो वा, तीर्यतेऽनेनेति वा तीर्थ सङ्को ज्ञानदर्शनचारित्रगुणयुतः, प्रवचनमपि श्रुतज्ञानरूपत्वात्तीर्थमेव, तत्र जैनमेव तीर्थ अभिप्रेतार्थसाधकं, सम्यश्रद्धानोपलब्धिक्रियात्मकत्वाद्यदेवं तदेवं यथा सम्यक्परिच्छेदवती रोगापनयनक्रिया यन्नैवं तत्तु नैवं यथोन्मत्तप्रयुक्तक्रिया । नेतरेषां तीर्थानि अभि- 25 प्रेतफलानि, समप्रनयविकलत्वात् , विफलक्रियावत् , यथा भिषक्प्रतिचारकातुरौषधाद्यन्यत

Loading...

Page Navigation
1 ... 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676