Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 660
________________ : প্রখসহাবিব देवेन्द्रसूरिविजयादिमचन्द्रसूरी, शिष्योत्तमौ कुमतसन्तमसांशुमन्तौ । विद्याविशारंदवरौ श्रमणौ समास्तां, तत्पनाकवडवातनयो मुनीन्द्रौ ॥३७॥ विद्यानन्दगणिर्विचक्षणमणिदेवेन्द्रसूरीशितुः, पूर्वोऽन्यो मुनिधर्मघोषगणपो ह्येतौ विनेयावुभौ । सेनान्यौ जिनशासनक्षितिपतेः पुण्याङ्गिबाहूपमौ, . . .. . . जातो तत्पदमौलिमौलिमणिभृत्-श्रीधर्मघोषः क्षमी ॥ ३८ ॥ समुद्राधिष्ठाता जलनिधितरङ्गावलिमिषात् , डुढौके रत्नादीननिमिषवरो यस्य सविधे । स्वपक्षान्यस्त्रीभिः प्रवचनवचोभञ्जनकृते, गले केशव्यूहः कुमतिभिरकारि स्वबलतः ॥ ३९ ॥ तदा विद्याद्रले विदितकपटो यो मुनिवरो, भृशं तस्तम्भैतास्तदनु सदयः सङ्घवचनात् । वधूनां निर्बन्धाल्लघु सममुचच्चातिशयभृत् , समग्रन्थीच्छ्रव्या जयवृषभसंज्ञादिकविताः ॥ ४० ॥ भिषज्यते कर्मरुजापहारे, सम्राज्यते सूरिसमूहमध्ये । धर्मोपदेशे जलमुच्यते यः, ओजायते पण्डितमण्डलेषु ॥ ४१ ॥ कश्चिद्योगिशठोऽवसद्वरनरे द्रङ्गे विशालाभिधे, साधून्भापयते स्म सौववलतो जैनान्समभ्यागतान् । भूम्यां संविहरन्हरन्कलितमः कुर्वञ्जनस्योद्धति, श्रीसूरीश्वरधर्मघोषविबुधस्तत्राजगामैकदा ॥ ४२ ॥ ईज्विालाज्वलितहृदयोऽहतिध्वस्तबुद्धिः, ज्ञात्वा योगी प्रति मुनिवरान् भापनायाददर्शत्। भीष्मान्दन्तान्क्रकचविषमान्दर्शयित्वा कफोणिं, जग्मुर्भीताः स्वगुरुसविधे साधवः प्रोचुराशु ॥ ४३ ।। प्रावोचद्गुरुराट् मुनींस्ततदयो मा भैष्ट यूयं मनाम् , युष्मद्रक्षणदक्षशक्तिसमितो वेवेभि यावत्तदा । 15 20 25 ७७

Loading...

Page Navigation
1 ... 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676