Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 664
________________ অসহানিফ रूपेण कामतुल्यो यो, वृत्या कामविनाशनः । स जीयात्सेनसूरीशः, पादाभ्यां लोकपावनः ।। ७५ ।। यस्मै जहागिरनृपेण सगौरवेण, सन्मण्डपाचलचये बिरुदं प्रदत्तम् । दीन्यजहागिरमहासुतपेति सोऽभूत् , तत्पट्टहाटकघटो गणिदेवसूरिः ॥७६ ॥ तत्पट्टसरोऽजनि सिंहमूरिः, दुर्वादिदन्तावलसिंहरूपः। ": तदन्तिपत्सत्यगणिबभूव, क्रियाप्रियाश्लेषसुखोपभोक्ता ॥ ७७ ॥ न्यायाचार्य यशःसतीर्थ्यविनयोपाध्यायसाहाय्यतः, . ... शैथिल्यं स्वगणे समीक्ष्य विदधौ कार्मः क्रियोद्धारकम् । सत्यं नाम चकार सत्यमिति यः स्वीयं तपस्वी ततः, ___ गच्छं स्वच्छममुं तपेति विदध-जीयात्स सत्यश्विरम् ॥ ७८ ॥ 10 तच्छिष्यकर्पूरगणिस्ततोऽभूत् , क्रियैककर्पूरसुगन्धपूर्णः। .... .... क्षमागणीशः समभूत्ततः सा, तदीयशिष्ये वरतां दधानः ॥ ७९ ॥ प्रतिष्ठिता सप्तशती च येन, तीर्थङ्करस्य प्रतिमा मनोज्ञा। .. ___ तत्पादवासी जिननामकोऽभूत् , षड्जीवरक्षाकरणप्रवीणः ।।८०॥ युग्मम्॥ श्रीमानभूदुत्तमनामधेयः, तच्छिष्यवर्यो गणिपूत्तमोऽसौ । 15 '. पन्यासपद्मास्यजयो गणीशः, ततोऽभवद् गौर्जरकाव्यकारी ॥ ८१॥ पअद्रहेति प्रथितोरुकीर्तिः, बर्हानपूर्या सह दण्डकैर्यः। ...... कुर्वन्विवादं विजयं तदापत् , क्रियाभिकाजी सततं विहारी ॥ ८२ ॥ तच्छिष्य आसीद्गणिरूपनामा, ततोऽभवत्कीर्तिर्गणिः सुकीर्तिः । पन्यासकस्तूरगणिस्ततोऽभूत् , विभ्रक्रियाचिन्मृगनाभिगन्धम् ॥८३॥ 20 सप्तर्षिभिर्गणिमणिः प्रयुतो यथानं, दीव्यत्तपाः सदमृतादिविनेयवयः । तस्पट्टमौलिमुकुटोऽप्रतिबद्धचारी, संवेगरङ्गकलितः शमितेन्द्रियोऽभूत् ॥४॥ अद्यापि वर्वति तदीयशिष्यः श्रीसिद्धिसूरिः स्वपरागमज्ञः। - पोरां तपस्यां तपति स्म वृद्धः, विनेयवर्यैः परिषेव्यमाणः ॥ ८५ ॥ ततोऽभवबुद्धिगणिर्मनीषी, विलोक्य शास्त्रे प्रतिमाविधानम् । . 25 विहाय यो दुण्डककापथ-सा, जग्राह संवेगपथं विधिशम् ॥ ८६ ॥

Loading...

Page Navigation
1 ... 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676