Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
मुनिश्री भद्रंकरविजयजीविरचितो ग्रन्थप्रशस्तिरूपः ग्रन्थकारपरम्परापरिचयः॥
शक्रश्रेणीमुकुटमणिभिः स्पृष्टपादारविन्दः, ___स्याद्वादीशश्वरमजिनपो वर्धमानः श्रियोढः । ज्ञानानन्त्यो यतिततिलतापूर्वबीजं विरागः,
भूयाभूत्यै सुकृतिकृतिनां शासनाधीश्वरोऽसौ ॥१॥ तत्पट्टा हिमरुगिव यो भासते कान्तकान्तिः,
विद्याम्भोधिः प्रथितगणभृत्पञ्चमः संयताक्षः। प्रातध्येयस्त्रिदिवपतिवत्सत्सुधर्माश्रितः सः,
· हर्षाय स्तात्सहृदयहृदां श्रीसुधर्मेशिता वै ॥२॥..... जम्बूः कम्बूजवलतरयशास्तत्सुपट्टाब्जपूषा, ___नव्योढाभिर्जितसुभगतास्वर्गरम्भोर्वशीभिः । जहे स्त्रीभिः सुदृढमनसो यस्य यूनो मनो नो, . ___वात्यामिर्वो वितरतु यथा मेरुकूटं स सौख्यम् ॥ ३॥ . . तत्पदृप्राक्शिखरिरवयः श्रीलजम्बूपदेशाद् , ..
दीक्षां प्राप्ताः प्रभवविभवो येऽभवन्पान्तु ते वः। अर्हन्मृा कुमततिमिरं सूर्यदीप्त्येव नष्टं; .
तत्पट्टेशोऽवतु सुमनसो यस्य शय्यम्भवः सः॥४॥ ततो यशोभद्रगुरुर्बभूव, तत्पदृशुद्धाम्बरपुष्पदन्तौ।
सम्भूतविद्वन्मणिभद्रबाहू, उभावभूतां कुमताजराहू ॥५॥ वेश्यावेश्मन्युषित्वा त्रिभुवनविजयी येन कामो विजिग्ये,
कोशावेश्याकटाक्षप्रसृमरविशिखानिर्जितस्वान्तयोधः।। कीर्तिः प्रातत्रिलोक्यां नरसुरदनुजैः कीर्त्यते यस्य नित्यं,
भद्रं स स्थूलभद्रो दिशतु मतिमतां-पट्टरत्नं तयोर्यः ॥६॥

Page Navigation
1 ... 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676