Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 651
________________ तत्त्वन्यायविभाकरे [ तृतीयकिरणे प्रथमसमयनिम्रन्थयोश्चरमाचरमनिर्ग्रन्थयोः किं कृतो विशेष इत्यत्राहाद्याविति, पूर्वानुपूर्वेति, विवक्षितसमयसमुदाये यः प्रथमस्तस्मादनुक्रमेण परिपाटिर्विरच्यते चेत्तदा स क्रमः पूर्वानुपूर्वीत्युच्यते तामवलम्ब्याद्यद्वयभेद आहत इति भावः । अन्त्यौ चेति पश्चानुपूयेति, तत्रैव यः पाश्चात्यचरमस्तस्मादारभ्य व्यत्ययेन क्रमपरिपाटिर्विरच्यते चेत्तदा स क्रमः पश्चानुपूर्वी5 त्युच्यते, तामवलंब्यान्त्यभेदद्वय उक्त इत्येव विशेष इति भावः । यथासूक्ष्मनिम्रन्थमाह प्रथमादीति, निर्विवक्षितसमयविशेषो वस्तुतस्तत्समयेषु वर्तमानो निम्रन्थो यथासूक्ष्मनिर्ग्रन्थ इत्यर्थः॥ अथ स्नातकमादर्शयति निरस्तघातिकर्मचतुष्टयस्स्नातकः । स सयोग्ययोगिभेदेन द्विविधः । 10 मनोवाकायव्यापारवान् स्नातकस्सयोगी । सर्वथा समुच्छिन्नयोगव्यापारवान् स्नातकोऽयोगी॥ निरस्तेति । क्षालितसकलघातिकर्ममलत्वात्स्नात इव स्नातस्स एव स्नातक इत्यर्थः, स्नाकत्वञ्च क्षपकश्रेणीत एव लभ्यते । अस्यापि द्वैविध्यमाह स इति, सयोगिनमाह मन इति, योगो वीर्य शक्तिरुत्साहः पराकम इति पर्यायाः, स च मनोवाकायलक्षणकरणभेदात्तिस्रः 15 संज्ञा लभते मनोयोगो वाग्योगः काययोगश्चेति, ईदृशयोगत्रयविशिष्टस्स्नातकस्सयोगीत्युच्यते मनःपर्यायज्ञानिप्रभृतिभिर्मनसा पृष्टस्य देशनाय मनोयोगस्य, धर्मदेशनादौ वाग्योगस्य, निमेषोन्मेषचंक्रमणादौ काययोगस्यावश्यकत्वादिति भावः, अयोगिनमाह सर्वथेति, सर्वथायोगनिरोधोत्तरं शैलेश्यवस्थावानित्यर्थः । योगनिरोधशैलेशीकरणञ्च पूर्वमेवोपदर्शितम् ॥ - अथ स्वरूपतोऽभिहितानामेषां चारित्रिणामनुयोगद्वारैस्साधनायाह20. संयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपातस्थानैर्विचार्या एते । पुलाक बकुशप्रतिसेवनाकुशीलास्सामायिकसंयमे छेदोपस्थाप्ये च वर्तन्ते । कषायकुशीलाः परिहारविशुद्धौ सूक्ष्मसम्पराये च । निर्ग्रन्थाः स्नातकाश्च यथाख्यात एव ॥ संयमेति । अष्टावेतान्यनुयोगद्वाराणि संक्षेपेणोक्तानि नातो न्यूनता शङ्का कार्य । अत्र 25 कस्मिन् संयमे के भवन्तीत्यत्राह पुलाकेति । सप्रभेदा एते आधचारित्रद्वय एव वन्त इत्यर्थः, कषायकुशीला इति, तत्त्वार्थभाष्यानुसारेणैवमुक्तिः, भगवत्याद्यनुसारेण तु आद्यद्वयेऽपि भवन्त्येत इति बोध्यम् । शिष्टं स्पष्टम् ॥

Loading...

Page Navigation
1 ... 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676