Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
: ५९८ : तस्वन्यायविभाकरे
[ तृतीयकिरणे तान् यः प्रतिसेवते स चारित्रप्रतिसेवनाकुशीलः । तपआचारास्तु द्वादशविधा बाह्याभ्यन्तररूपाः तद्विराधकस्तपःप्रतिसेवनाकुशील इति । यद्वा चरणप्रतिसेवनाकुशीलो यः कौतुकभूतिकर्मप्रश्नाप्रश्ननिमित्ताजीवकल्ककुरुकालक्षणविद्यामन्त्रादीन्युफ्जीवति सः, तत्र कौतुकं
आश्चर्य यथा मायाकारको मुखे गोलकान् प्रक्षिप्य कर्णेन निष्काशयति नासिकया वा । 5 तथा मुखादग्नि निष्कासयतीत्येवंभूतम् , भूतिकर्म नाम यजवरितादीनामभिमंत्रितेन शारेण रक्षाकरणम् । प्रश्नाप्रश्नं नाम--यत्स्वप्नविद्यादिभिः शिष्टस्यान्येभ्यः कथनम् । निमित्तं नामातीतादिभावकथनम् । आजीवो नामाऽऽजीविका स च जात्यादिभेदस्सप्तप्रकारः । कल्को नाम प्रसूत्यादिषु रोगेषु क्षारपातनमथवाऽऽत्मनश्शरीरस्य देशतस्सर्वतो वा लोध्रादिभिरुद्वर्त्तनम् । कुरुका नाम देशतस्सर्वतो वा शरीरस्य प्रक्षालनम् । लक्षणं पुरुषलक्षणादि । 10 तथा विद्यामंत्राथुपजीवकः ससाधना विद्या, असाधनो मंत्र, यद्वा यस्याधिष्ठात्री देवता सा विद्या, यस्य चाधिष्ठाता देवस्स मंत्रः, आदिना मूलकर्मचूर्णादीनां ग्रहणं, मूलकर्म-गर्भोत्पादनं गर्मपातनमित्यादिचूर्णादयस्तु प्रसिद्धा एव । यथासूक्ष्मप्रतिसेवनाकुशीलमाह-शोभनेति ।
अयं शोभनस्तपस्वीत्येवंविधलोकप्रयुक्तप्रशंसाश्रवणजन्यसंतोषवान् कुशील इत्यर्थः ॥ ... कषायकुशीलस्यापि भेदानाह15 संज्वलनक्रोधादिभिर्ज्ञानदर्शनतपसां स्वाभिप्रेतविषये व्यापारयिता
ज्ञानादित्रिविधकषायकुशीलः । कषायाक्रान्तश्शापप्रदः कुशीलश्चारित्रकषायकुशीलः । मनसा क्रोधादिकर्ता कुशीलो यथासूक्ष्मकषायकुशीलः।
संज्वलनेति । संज्वलनक्रोधादिना स्वाभिप्रेतविषये विद्यादिज्ञानं दर्शनग्रन्थं च प्रयुजानः तपसा शापं ददत् , चारित्रतो लिङ्गान्तरं कुर्वन् ज्ञानकषायकुशीलो दर्शनकषायकु20 शीलः चारित्रकषायकुशीलस्तपःकषायफुशीलश्च भवतीत्यर्थः । मनसा केवलं क्रोधादीन कुर्वन् यथासूक्ष्मकषायकुशील इति ॥
अथ निर्ग्रन्थमाह. निर्गतमोहनीयमात्रकर्मा चारित्री निर्ग्रन्थः । स चोपशान्तमोहः
क्षीणमोहश्चेति द्विविधः। संक्रमणोद्वर्तनादिकरणायोग्यतया व्यवस्थापित25 मोहनीयकर्मोपशान्तमोहः । क्षपितसर्वमोहनीयप्रकृतिको निर्ग्रन्थः
क्षीणमोहः॥ ... निर्गतेति । द्रव्यतो भावतश्च मिथ्यात्वादिमोहनीयकर्मभ्यो निर्गतश्चारित्री निर्मन्थ

Page Navigation
1 ... 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676