Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
: ६०२: तस्वन्यायविमाफरे
[ तृतीयकिरणे माङ्गविकला क्रिया न सम्पूर्णाभिप्रेतफलसाधनभूता तथैतदन्यतीर्थान्यपीति । तीर्थेषु भवन्तीति, तत्त्वार्थभाष्यानुसारेणेदम्, भगवत्यान्तु पुलाकबकुशप्रतिसेवनाकुशीलास्तीर्थे एव, कषायकुशीलनिम्रन्थस्नातकास्तु तीर्थे वाऽतीर्थे वा भवन्ति, कषायकुशीलः छद्मस्थावस्थायां तीर्थकरोऽपि स्यात्तदपेक्षया, तीर्थव्यवच्छेदे तदन्योऽप्यसौ स्यादिति तदन्यापेक्षया 5 चातीर्थेऽपि स्यादिति ॥
लिङ्गद्वारमाह
ज्ञानदर्शनचारित्ररूपभावलिङ्गानि सर्वेषां स्युः, रजोहरणादिद्रव्यलिङ्गानि तु केषाश्चित्सर्वदैव भवन्ति, केषाश्चित्कदाचित्, केषाश्चिच्च नैव
भवन्ति ॥ 10 ज्ञानेति । लिङ्गं द्विधा, द्रव्यभावभेदात्, भावलिङ्ग ज्ञानादि, एतच्च स्वलिङ्गमेव,
ज्ञानादिभावस्याहतामेव भावात् , द्रव्यलिङ्गन्तु स्वलिङ्गपरलिङ्गभेदावधा, रजोहरणादि स्वलिङ्गम् , परलिङ्गमपि कुतीर्थिकगृहस्थलिङ्गभेदाद्विविधम् , तत्र भावलिङ्गस्य तदन्तरा चरणासम्भवात्सर्वेषामस्तित्वमेवेत्याह ज्ञानेति, द्रव्यलिङ्गमाश्रित्याह रजोहरणादीति, चरण
परिणामस्य द्रव्यलिङ्गानपेक्षत्वात्रिविधलिङ्गेऽप्येते भवन्तीति भावः । नैव भवन्तीति, यथा 15 मरुदेवीप्रभृतीनामिति ॥
लेश्याद्वारमाह
पुलाकस्योत्तरास्तिस्रो लेश्याः, बकुशप्रतिसेवनाकुशीलयोषडपि, परिहारविशुद्धिस्थकषायकुशीलस्योत्तरास्तिस्रः, सूक्ष्मसम्परायस्थस्य तस्य निर्ग्रन्थस्नातकयोश्च केवला शुक्ला लेश्या, अयोगस्य शैलेशीप्रतिपन्नस्य 20 न काचिदपि भवति ।
पुलाकस्येति । लेश्याः पूर्वोक्ताः, उत्तरा इति, भावलेश्यापेक्षया तेजःपद्मशुक्ललेश्यास्तिस्र इत्यर्थः । बकुशेति, षडपीति, तत्त्वार्थभाष्यानुसारेणेदम् , भगवत्यान्तु पुलाकस्येवेत्यु. क्तम् । परिहारविशुद्धिस्थेति, तिस्र इति तेजःपद्मशुक्ललेश्या इत्यर्थः, तत्त्वार्थानुसारेणेदम् ,
भगक्त्यान्तु कषायकुशीलस्तु षट्स्वपीत्युक्तम् , तद्व्याख्यायां सकषायमेवाश्रित्य " पुषपडि25 वण्णओ पुण अण्णयरीए लेस्साए” इत्येतदुक्तमिति संभाव्यत इति दृश्यते । तस्येति
कषायकुशीलस्येत्यर्थः । केवलेति, अन्यलेश्यानिरपेक्षेत्यर्थः । स्नातकस्य परमशुक्ललेश्या प्रोक्ता भगवत्यां, परमशुक्ललेश्या च शुक्लध्यानतृतीयभेदावसरे या लेश्या सा, अन्यदा तु शुक्लैव, सापीतरजीवशुक्ललेश्यापेक्षया स्नातकस्य परमशुक्लेति । शिष्टं स्पष्टम् ॥

Page Navigation
1 ... 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676