Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 647
________________ तत्त्वन्यायविभाकरे [ तृतीयकिरणे नातीवाहोरात्राभ्यन्तरानुष्ठेयासु क्रियासूद्यता इति भावः । अविविक्तपरिवारा इति, असंयमान्न पृथग्भूता घृष्टजंघास्तैलादिकृतशरीरमृजाः कतरिकाकल्पितकेशाश्च परिवारा येषां तादृशा इत्यर्थः, छेदयोग्यशबलचारित्रा इति, सर्वदेशच्छेदा तिचारजनितशबलत्वेन युक्ता इत्यर्थः ॥ अथ कुशीलमाह· उत्तरगुणविराधमसंज्वलनकषायोदयान्यतरस्माद्गर्हितचारित्रः कुशीलः । स चाऽऽसेवनाकषायभेदेन द्विविधः॥ उत्तरेति । कुत्सितं शीलमाचारो यस्य स कुशीलः, यद्वा कुत्सितमुत्तरगुणप्रतिसेवनया संज्वलनकषायोदयेन वा दूषितत्वाच्छीलमष्टादशसहस्राङ्गशीलभेदं यस्य स कुशीलः काल10 विनयादिभेदभिन्नानां ज्ञानदर्शनचारित्राचाराणां विराधक इत्यर्थः । तस्य प्रभेदं दर्शयति स चेति, आसेवनाकुशील इत्यर्थः । तौ दर्शयति,-- . वैपरीत्येन संयमाराधक आसेवनाकशीलः । अयमेव प्रतिसेवनाकशील उच्यते । संज्वलनक्रोधाद्युदयाद्गर्हितचारित्रः कषायकुशीलः ॥ .. 15 वैपरीत्येनेति । यो नैर्ग्रन्ध्यं प्रति प्रस्थितोऽनियतेन्द्रियः कथञ्चित्किञ्चिदेवोत्तरगुणेषु पिण्डविशुद्धिसमितिभावनातपःप्रतिमादिषु विराधयन् सर्वज्ञाज्ञोल्लंघनमाचरति स आसेवनाकुशील इत्यर्थः, आसेवनाप्रतिसेवनापदयोरेकार्थतयाऽऽहायमेवेति आसेवनाकुशील एवेत्यर्थः, . कषायकुशीलमाह संज्वलनेति, यस्य तु संयतस्यापि सतः कथञ्चित्संज्वलनकषाया उदीर्यन्ते स कषायकुशील इत्यर्थः ॥ 20 पुनस्तस्य प्रकारान्तरमाह-- _ द्विविधोऽपि स पञ्चविधः । ज्ञानदर्शनचरणतपोयथासूक्ष्मभेदात् । ज्ञानदर्शनचरणतपसां वैपरीत्येनाऽऽसेवकाश्चत्वारः प्रतिसेवनाकुशीलाः। शोभनतपस्वित्वप्रशंसाजन्यसंतोषवान् यथासूक्ष्मप्रतिसेवनाकुशीलः । - द्विविधोऽपीति । आसेवनाकषायभेदेन द्विभेदोऽपीत्यर्थः, तथा च प्रतिसेवनाकुशील: 25 पश्चविधः, कषायकुशीलोऽपि पञ्चविध इत्यर्थः । आद्यान् चतुर्विधानेकान्थेन लाघवादाह ज्ञानदर्शनचरणतपसामिति, यो हि ज्ञान-ज्ञानाचारं वैपरीत्येनासेवते स ज्ञानप्रतिसेवनाकुशीलः, ज्ञानाचारोऽष्टविधः, कालविनयबहुमानोपधानानिह्नवव्यञ्जनार्थतदुभयभेदात् । ज्ञान

Loading...

Page Navigation
1 ... 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676