Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 646
________________ बकुशाः ] न्यायप्रकाशसमलङ्कृते रीरवकुशः । शृङ्गाराय तैलादिना दण्डपात्रादीन्युज्वलीकृत्य ग्रहणशील उपकरणबकुशः॥ देहस्येति । अङ्गोपाङ्गसंघातरूपस्य देहस्य वस्त्रपात्राद्युपकरणानाञ्चालङ्करणेऽनुवर्तनाशीलः, अष्टाविंशतिविधमोहनीयक्षयाकांक्ष्यपि ऋद्धियशस्कामत्वात् सुखशीलतावाप्तिव्यापारप्रवणत्वाच्चाहोरात्राभ्यन्तरानुष्ठेयासु क्रियासु नितरामनुद्यततया चरणपटस्य विशुद्ध्यविशुद्धि- 5 संकीर्णस्वभावतामापादयतीति कर्बुरत्वाद्वकुश उच्यत इत्यर्थः, तत्प्रभेदमाह शरीरेति । शरीरबकुशं निरूपयति, अनागुप्तेति, मलनिस्सारणेति, मलानां दूरीकरणं दन्तानां धावनं केशानां च संस्कारः, इत्यादीनामनुष्ठातेत्यर्थः, अयं मूलगुणान्न विराधयति उत्तरगुणांस्तु भ्रंशयति, उपकरणबकुशमाह शृंगारायेति, विभूषार्थ दण्डपात्रकादि तैलादिनोज्ज्वलीकृत्य ग्रहणप्रवणः, अकाल एव प्रक्षालितचोलपट्टकान्तरकल्पादिः प्रभूतवस्त्रपात्रादिकामुक उपकरणबकुश 10 इति भावः ॥ बकुशमेव प्रकारान्तरेण विभज्य दर्शयति पुनरपि बकुशः पवविधः, आभोगानाभोगसंवृतासंवृतसूक्ष्मभेदात् शरीरोपकरणानामलंकारस्साधूनामकार्य इति ज्ञानवान् कर्ता च बकुश आभोगबकुशः। सहसा च शरीरोपकरणानामलंकर्ता बकुश अनाभोगः। 15 लोकैरविदितदोषो बकुशस्संवृतः। प्रकटं दोषानुष्ठाता बकुशोऽसंवृतः। किश्चित्प्रमादी नेत्रमलाद्यपनयकारी बकुशस्सूक्ष्मबकुशः । एते बकुशाः सामान्येनर्द्धियशस्कामास्सातगौरवाश्रिता अविविक्तपरिवाराश्छेदयोग्यशबलचारित्रा बोध्याः॥ पुनरपीति, स्पष्टम् । आभोगबकुशमाह-शरीरेति, शरीरोपकरणानां विभूषार्थ संस्कारो 20 न कार्य इति ज्ञात्वापि तथाकारीत्यर्थः, यस्तु तथाऽज्ञात्वा सहसा करोति स त्वनाभोगबकुश उच्यत इत्याह सहसेति, संवृतबकुशमाह लोकैरिति, यद्यपि संवृतशब्दो निरुद्धाश्रवद्वारे सर्वविरते मनोवाकायगुप्ते यमनियमरते वा वर्तते तथापि बकुशशब्दसामानाधिकरण्येन लोकाविदितत्वमात्रे वर्त्तते तथा च यथा लोका दोषान् स्वानुष्ठितान्न जानीयुस्तथादोषानुष्ठाता बकुशस्तादृश इत्यर्थः । असंवृतबकुशमाह प्रकटमिति, सूक्ष्मबकुशमाह किश्चित्प्रमादीति, स्पष्टं, 25 बकुशस्यैव स्वरूपं पुनर्दर्शयति एत इति उक्तप्रकारा बकुशा इत्यर्थः, ऋद्धियशस्कामा इति, प्रभूतवनपात्रादिकामृद्धिं गुणवन्तो विशिष्टास्साधव इत्यादिरूपां ख्यातिश्च ये कामयन्ते त इत्यर्थः, सातगौरवाश्रिता इति, साते सुखे यद्गौरवमादरस्तदाश्रिता इत्यर्थः, यत एवम्भूता एते अत एक

Loading...

Page Navigation
1 ... 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676