________________
बकुशाः ]
न्यायप्रकाशसमलङ्कृते रीरवकुशः । शृङ्गाराय तैलादिना दण्डपात्रादीन्युज्वलीकृत्य ग्रहणशील उपकरणबकुशः॥
देहस्येति । अङ्गोपाङ्गसंघातरूपस्य देहस्य वस्त्रपात्राद्युपकरणानाञ्चालङ्करणेऽनुवर्तनाशीलः, अष्टाविंशतिविधमोहनीयक्षयाकांक्ष्यपि ऋद्धियशस्कामत्वात् सुखशीलतावाप्तिव्यापारप्रवणत्वाच्चाहोरात्राभ्यन्तरानुष्ठेयासु क्रियासु नितरामनुद्यततया चरणपटस्य विशुद्ध्यविशुद्धि- 5 संकीर्णस्वभावतामापादयतीति कर्बुरत्वाद्वकुश उच्यत इत्यर्थः, तत्प्रभेदमाह शरीरेति । शरीरबकुशं निरूपयति, अनागुप्तेति, मलनिस्सारणेति, मलानां दूरीकरणं दन्तानां धावनं केशानां च संस्कारः, इत्यादीनामनुष्ठातेत्यर्थः, अयं मूलगुणान्न विराधयति उत्तरगुणांस्तु भ्रंशयति, उपकरणबकुशमाह शृंगारायेति, विभूषार्थ दण्डपात्रकादि तैलादिनोज्ज्वलीकृत्य ग्रहणप्रवणः, अकाल एव प्रक्षालितचोलपट्टकान्तरकल्पादिः प्रभूतवस्त्रपात्रादिकामुक उपकरणबकुश 10 इति भावः ॥
बकुशमेव प्रकारान्तरेण विभज्य दर्शयति
पुनरपि बकुशः पवविधः, आभोगानाभोगसंवृतासंवृतसूक्ष्मभेदात् शरीरोपकरणानामलंकारस्साधूनामकार्य इति ज्ञानवान् कर्ता च बकुश आभोगबकुशः। सहसा च शरीरोपकरणानामलंकर्ता बकुश अनाभोगः। 15 लोकैरविदितदोषो बकुशस्संवृतः। प्रकटं दोषानुष्ठाता बकुशोऽसंवृतः। किश्चित्प्रमादी नेत्रमलाद्यपनयकारी बकुशस्सूक्ष्मबकुशः । एते बकुशाः सामान्येनर्द्धियशस्कामास्सातगौरवाश्रिता अविविक्तपरिवाराश्छेदयोग्यशबलचारित्रा बोध्याः॥
पुनरपीति, स्पष्टम् । आभोगबकुशमाह-शरीरेति, शरीरोपकरणानां विभूषार्थ संस्कारो 20 न कार्य इति ज्ञात्वापि तथाकारीत्यर्थः, यस्तु तथाऽज्ञात्वा सहसा करोति स त्वनाभोगबकुश उच्यत इत्याह सहसेति, संवृतबकुशमाह लोकैरिति, यद्यपि संवृतशब्दो निरुद्धाश्रवद्वारे सर्वविरते मनोवाकायगुप्ते यमनियमरते वा वर्तते तथापि बकुशशब्दसामानाधिकरण्येन लोकाविदितत्वमात्रे वर्त्तते तथा च यथा लोका दोषान् स्वानुष्ठितान्न जानीयुस्तथादोषानुष्ठाता बकुशस्तादृश इत्यर्थः । असंवृतबकुशमाह प्रकटमिति, सूक्ष्मबकुशमाह किश्चित्प्रमादीति, स्पष्टं, 25 बकुशस्यैव स्वरूपं पुनर्दर्शयति एत इति उक्तप्रकारा बकुशा इत्यर्थः, ऋद्धियशस्कामा इति, प्रभूतवनपात्रादिकामृद्धिं गुणवन्तो विशिष्टास्साधव इत्यादिरूपां ख्यातिश्च ये कामयन्ते त इत्यर्थः, सातगौरवाश्रिता इति, साते सुखे यद्गौरवमादरस्तदाश्रिता इत्यर्थः, यत एवम्भूता एते अत एक