________________
तत्त्वन्यायविभाकरे
[ तृतीयकिरणे नातीवाहोरात्राभ्यन्तरानुष्ठेयासु क्रियासूद्यता इति भावः । अविविक्तपरिवारा इति, असंयमान्न पृथग्भूता घृष्टजंघास्तैलादिकृतशरीरमृजाः कतरिकाकल्पितकेशाश्च परिवारा येषां तादृशा इत्यर्थः, छेदयोग्यशबलचारित्रा इति, सर्वदेशच्छेदा तिचारजनितशबलत्वेन युक्ता इत्यर्थः ॥
अथ कुशीलमाह· उत्तरगुणविराधमसंज्वलनकषायोदयान्यतरस्माद्गर्हितचारित्रः कुशीलः । स चाऽऽसेवनाकषायभेदेन द्विविधः॥
उत्तरेति । कुत्सितं शीलमाचारो यस्य स कुशीलः, यद्वा कुत्सितमुत्तरगुणप्रतिसेवनया संज्वलनकषायोदयेन वा दूषितत्वाच्छीलमष्टादशसहस्राङ्गशीलभेदं यस्य स कुशीलः काल10 विनयादिभेदभिन्नानां ज्ञानदर्शनचारित्राचाराणां विराधक इत्यर्थः । तस्य प्रभेदं दर्शयति स चेति, आसेवनाकुशील इत्यर्थः ।
तौ दर्शयति,-- . वैपरीत्येन संयमाराधक आसेवनाकशीलः । अयमेव प्रतिसेवनाकशील उच्यते । संज्वलनक्रोधाद्युदयाद्गर्हितचारित्रः कषायकुशीलः ॥ .. 15 वैपरीत्येनेति । यो नैर्ग्रन्ध्यं प्रति प्रस्थितोऽनियतेन्द्रियः कथञ्चित्किञ्चिदेवोत्तरगुणेषु
पिण्डविशुद्धिसमितिभावनातपःप्रतिमादिषु विराधयन् सर्वज्ञाज्ञोल्लंघनमाचरति स आसेवनाकुशील इत्यर्थः, आसेवनाप्रतिसेवनापदयोरेकार्थतयाऽऽहायमेवेति आसेवनाकुशील एवेत्यर्थः, . कषायकुशीलमाह संज्वलनेति, यस्य तु संयतस्यापि सतः कथञ्चित्संज्वलनकषाया उदीर्यन्ते
स कषायकुशील इत्यर्थः ॥ 20 पुनस्तस्य प्रकारान्तरमाह--
_ द्विविधोऽपि स पञ्चविधः । ज्ञानदर्शनचरणतपोयथासूक्ष्मभेदात् । ज्ञानदर्शनचरणतपसां वैपरीत्येनाऽऽसेवकाश्चत्वारः प्रतिसेवनाकुशीलाः। शोभनतपस्वित्वप्रशंसाजन्यसंतोषवान् यथासूक्ष्मप्रतिसेवनाकुशीलः ।
- द्विविधोऽपीति । आसेवनाकषायभेदेन द्विभेदोऽपीत्यर्थः, तथा च प्रतिसेवनाकुशील: 25 पश्चविधः, कषायकुशीलोऽपि पञ्चविध इत्यर्थः । आद्यान् चतुर्विधानेकान्थेन लाघवादाह
ज्ञानदर्शनचरणतपसामिति, यो हि ज्ञान-ज्ञानाचारं वैपरीत्येनासेवते स ज्ञानप्रतिसेवनाकुशीलः, ज्ञानाचारोऽष्टविधः, कालविनयबहुमानोपधानानिह्नवव्यञ्जनार्थतदुभयभेदात् । ज्ञान