SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ कुशीला: ] म्यायप्रकाशसमलङ्कृते : ५९७ : पदेन श्रुतं विवक्षितं यो यस्यांगप्रविष्टादेःश्रुतस्य काल उक्तस्तस्य तस्मिन्नेव काले स्वाध्यायः कर्त्तव्यो नान्यदा, तीर्थकरवचनात् दृष्टञ्च लोकेऽपि कृष्यादेः काले करणे फलं विपर्यये तु विपर्यय इति, एवमनाचरणे प्रायश्चित्तमस्ति, तथा श्रुतग्रहणं कुर्वता गुरोर्विनयः कार्यः, विनयोऽभ्युत्थानपादधावनादिः, अविनयहीनं हि तदूषरोप्तबीजमिव विफलं भवति, तथा श्रुतग्रहणोद्यतेन गुरोर्बहुमानः कार्यः, बहुमानो नामाऽऽन्तरों भावप्रतिबन्धः, एतस्मिन् 5. सत्यक्षेपेणाधिकफलं श्रुतं भवति, अङ्गोपाङ्गानां सिद्धान्तानां पठनाराधनार्थमाचाम्लोपवासनिर्विकृत्यादिलक्षणस्तपोविशेष उपधानम् । न निवोऽपलापः अनिह्नवः, यतोऽधीतं तस्यानपलाप:, यतोऽनिवेनैव पाठादि सूत्रादेर्विधेयं न पुनर्मानादिवशादात्मनो लाघवाद्याशङ्कया श्रुतगुरूणां श्रुतस्य वाऽपलापः कार्यः । व्यञ्जनार्थतदुभयभेद्राः यथा श्रुतप्रवृत्तेन तत्फलमभीसता व्यञ्जनभेदोऽर्थभेदस्तदुभयभेदश्च न कार्यः, तत्र व्यञ्जनभेदो यथा - ' धम्मो मङ्गलमु - 10 क्विटं ' इति वक्तव्ये ' पुण्णं कल्लाणमुक्कोस 'मित्यादि, अर्थभेदस्तु यथा ' आवंती केयावंती लोगंसि विप्परा मुसंति' इत्याचारसूत्रे यावन्तः केचन लोके अस्मिन् पाखण्डिलोके विपरामृशन्तीत्येवंविधार्थाभिधाने अवन्तिजनपदे केया-रज्जुर्वान्ता पतिता लोकः परामृशति कूप इत्याह, तदुभयभेदस्तु द्वयोरपि याथात्म्योपमर्देन यथा ' धर्मो मङ्गलमुत्कृष्टः अहिंसा पर्वतमस्तक इत्यादि, अत्र दोषश्च व्यञ्जनभेदेऽर्थभेदस्तद्भेदे क्रियाभेदस्तद्भेदे मोक्षाभावस्तदभावे 15 निरर्थका दीक्षेति । एवञ्च ज्ञानाचारान् यः प्रतिसेवते स ज्ञानप्रति सेवनाकुशीलो बोध्यः, एवं दर्शनं दर्शनाचारं वैपरीत्येनासेवते स दर्शनप्रतिसेवनाकुशीलः । दर्शनं सम्यक्त्वं तदाचारः निश्शङ्कितत्वादिरष्टविधः निश्शङ्कितनिष्कांक्षितनिर्विचिकित्साऽमूढदृष्टधुपबृंहणस्थिरीकरणवात्सल्यप्रभावनाभेदात् । शङ्कितं सन्देहस्तस्याभावो निःशङ्कितम्, कांक्षा अन्यान्यदर्शनग्रहस्तदभावो निष्कांक्षितं विचिकित्सा मतिविभ्रमः युक्तयाऽऽगमोपपन्नेऽप्यर्थे फलं 20 प्रति संमोहः तदभावो निर्विचिकित्सम् । अमूढाऽविचला तपोविद्यातिशयादिकुतीर्थिकर्द्धिदर्शनेऽप्यमोहस्वभावा दृष्टिस्सम्यग्दर्शनममूढदृष्टिः, उपबृंहणं समानधार्मिकाणां क्षमणावैयावृत्त्यादिसद्गुणप्रशंसनेन तत्तद्गुणवृद्धिकरणम्, स्थिरीकरणं धर्माद्विषीदतां तत्रैव चारुवचन'चातुर्यादवस्थापनम्, वात्सल्यं समानदेवगुरुधर्माणां भोजनवसनदानोपकारादिभिस्सम्माननम्, प्रभावना धर्मकथाप्रतिवादिविजयदुष्करतपश्चरणकरणादिभिर्जिनप्रवचनप्रकाशनम् 25 यद्यपि च प्रवचनं शाश्वतत्वा तीर्थंकर भाषितत्वात्सुरासुरनमस्कृतत्वाद्वा स्वयमेव दीप्यते तथापि दर्शनशुद्धिमात्मनोऽभीप्सुर्यो येन गुणेनाधिकः स तेन तत्प्रवचनं प्रभावयति - यथा भगवदाचार्यवज्रस्वामिप्रभृतिक इति । तदेवं दर्शनाचारं यः प्रतिसेवते स दर्शनप्रति सेवना कुशील उच्यते । एवं चारित्राचारा अष्टौ प्रणिधानयोगयुक्तस्य पञ्चसमितयस्त्रिगुप्तय इति । 6
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy