SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ : ५९४ : तस्वन्यायविभाकरे [ तृतीयकिरणे विदधाति स ज्ञानपुलाक इत्यर्थः । सूत्रे तदर्थे वा यदृच्छया प्रवृत्तौ हि करणचरणस्यानवस्था भवति, ततश्च न तीर्थमनुसरति, नैव च प्रतिषिद्धं समाचरतस्तस्य संयमो भवति, तदभावे दीक्षा निरर्थिका तन्निरर्थकता याच मोक्षस्याप्यभावः स्यादिति निस्सारो भवत्यात्मा । अथ दर्शनपुलाकं लचयति कुदृष्टीति, कुत्सिता जिनागमविपरीतत्वादृष्टिर्दर्शनं येषां ते कुदृष्टयः 5 पाखण्डिनः, तेषां संस्तवः पुण्यभाज एते, सुलब्धमेषां जन्म, दयालव एत इत्येवं स्तुतिः, अयं हि सम्यक्त्वस्यातिचारः, यद्वा कुदृष्टिभिरेकत्र संवासात्परस्परालापजन्यः परिचयः कुदृष्टिसंस्तवः, अयमपि सम्यक्त्वस्यातिचारः, एकत्र वासे हि तत्प्रक्रियाश्रवणात्तत्तत्क्रियादर्शनाच्च दृढसम्यक्त्वस्यापि दृष्टिभेदस्सम्भाव्यते, किमुत मन्दबुद्धेर्नवधर्मस्य, तथा च दृष्टिसंस्तवादिभिर्य आत्मनो गुणस्य सम्यक्त्वस्य घातकस्स दर्शनपुलाक इति भावः । 10 अथ चारित्रपुलकमाह मूलोत्तरेति, मूलानीव चारित्रकल्पद्रुमस्य मूलानि, तद्रूपा ये गुणास्ते मूलगुणाः प्राणातिपातादिविरमणरूपास्तेषां प्रातिकूल्येन सेवनं मूलगुणप्रतिसेवनं, यथैकेन्द्रियाणां संघट्टनगाढागाढ परितापनोपद्रवणादिरूपं, मूलगुणापेक्षयोत्तरभूता गुणा वृक्षशाखा इवोत्तरगुणाः, पिण्डविशुद्ध्यादयः तेषां प्रतिसेवना, उत्तरगुणप्रति सेवना, तत्र मूलोत्तरगुणप्रतिसेवनापदेन मूलोत्तरगुणातिचारप्रतिसेवना ग्राह्या पदैकदेशे 15 पदसमुदायोपचारेण प्रातिकूल्येन वा सेवनेनातिचारसम्भवात्कारणे कार्योपचारेण वा तथोक्तिः । मूलगुणानां पञ्चविधत्वादतिचारप्रतिसेवना पञ्चविधा, उत्तरगुणानां दशविधत्वात्तदतिचारप्रतिसेवनापि दशधा, एवम्प्रतिसेवनातश्चारित्रविराधनासंभवेनाऽऽत्मनः पातयिता चारित्रपुलाक उच्यत इत्यर्थः, अतिचारसूचनाय मूलोत्तरगुणान्स्मारयति तत्रेति, प्रतिसेवनासम्बन्धिन इत्यर्थः महाव्रतादय इति प्राणातिपातादिविरमणरूपमहाव्रतादय 20 इत्यर्थः, आदिना रात्रिभोजनविरमणस्य ग्रहणम्, पिण्डविशुद्ध्यादय इति पिंडविशुद्धिरेक उत्तरगुणः, पञ्च समितयः पश्चोत्तरगुणाः, एवं तपो बाह्यं षट्प्रभेदं सप्तम उत्तरगुणः, अभ्यन्तरषट्प्रभेदमष्टमः, भिक्षुप्रतिमा द्वादश नवमः, अभिग्रहाश्चतुर्विधा दशम इति । सम्प्रति लिङ्गपुलाकमाहोत्तेति, शास्त्रोक्तलिङ्गाधिकग्रहणात् निष्कारणमन्यलिङ्गकरणालिङ्गपुलाको भवतीत्यर्थः । यथासूक्ष्मपुलाक माहेषदिति, ईषत्प्रमादात् मनसाऽकल्प्यानां ग्रहणा25 च्चात्मघातक इत्यर्थः ॥ अथ बकुशमाह - देहस्योपकरणानां वाऽलङ्काराभिलाषुकश्चरणमलिनकारी बकुशः । शरीरोपकरणभेदाभ्यां स द्विविधः । अनागुप्तव्यतिरेकेण भूषार्थं करचरणादिप्रक्षालननेत्रादिमलनिस्सारणदन्तक्षालनकेशसंस्काराद्यनुष्ठाता श
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy