________________
पुलाकाः ]
न्यायप्रकाशसमलङ्कृते सङ्घादीति । तन्दुलकणशून्या पलञ्जिः पुलाको लोके प्रोच्यते निस्सारत्वात् । तद्वदयं चारित्री सारभूतानां ज्ञानदर्शनचारित्राणामतिचारानासेवते तप:श्रुताभ्यामुत्पन्नां ब्धि बिभर्ति प्रयुक्त च समये, जिनप्रणीतादागमादनवरतमप्रतिपाती च, सम्यग्दर्शनज्ञानचरणानि निर्वाणकारणानीति श्रद्धधानो ज्ञानानुसारेण क्रियानुष्ठायी च, तत्र संघादिप्रयोजने सबलवाहनस्य चक्रवल्देरपि चूर्णने समर्थायास्तपःश्रुतहेतुकाया लब्धेरुपजीवनेन ज्ञानाद्यतिचारासे- 5 वनेन वा यस्संयमसाररहितो जिनप्रेरितात्त्वागमात् सदैवाप्रतिपाती सन् ज्ञानानुसारेण क्रियानुष्ठायी स पुलाक इति भावः । उपजीवनान्तेन लब्धिमता दोषवानित्यन्तेन निस्सारताऽवशिष्टेन च सम्यग्दृष्टिता सूचिता । तस्य भेदमाह-स चेति, भेदप्रकारमाह लब्धिपुलाकेति, लब्ध्या युतः पुलाको लब्धिपुलाकः, सेवया अतिचारसेवनया युतः पुलाकस्सेवापुलाकः इत्यर्थः । तत्र लब्धिपुलाकमाह देवेन्द्रेति, देवेन्द्रस्य या सम्पत्तिस्तत्सदृशसम्पत्तिमानित्यर्थः, 10 कुत इत्यत्र हेतुगर्भविशेषणमाह लब्धिविशेषेति, साधारणलब्धियुतो न, किन्तु देवेन्द्रसम्पत्तितुल्यसम्पत्तिप्रसवयोग्यलब्धिविशेषयुक्त इति भावः, सोऽन्योऽपि भवेदित्यत्र आह पुलाक इति, केचित्तु आसेवनतो यो ज्ञानपुलाकस्तस्येयमीदृशी लब्धिः, स एव च लब्धिपुलाको न कश्चित्तद्व्यतिरिक्तोऽपर इण्याहुः । सेवापुलाकस्य प्रकारानाह सेवापुलाकस्त्विति ॥ सम्प्रति सेवापुलाकादीनां स्वरूपमाह--
15 ५. सूत्राक्षराणां स्खलितमिलितादिभिरतिचारैनिमाश्रित्याऽऽत्मनो निस्सारकारी ज्ञानपुलाकः । कुदृष्टिसंस्तवादिभिरात्मगुणघातको दर्शनपुलाकः । मूलोत्तरगुणप्रतिसेवनया चारित्रविराधनेनात्मभ्रंशकश्चारित्रपुलाकः, तत्र मूलगुणा महाव्रतादयः, उत्तरगुणाः पिण्डविशुद्धयादयः। उक्तलिङ्गाधिकलिङ्गग्रहणनिर्हेतुकापरलिङ्गकरणान्यतरस्मादात्मनो निस्सा- 20 रकर्ता लिङ्गपुलाकः। ईषत्प्रमादमनःकरणकाकल्प्यग्रहणान्यतरेणाऽऽत्मभ्रंशको यथासूक्ष्मपुलाकः॥
सूत्राक्षराणामिति । सर्वद्रव्यपर्यायनयाद्यर्थसूचनात् पदानामनेकेषां सीवनात् सम्यक्कथनाद्वा सूत्रं, अल्पाक्षरं महाथ द्वात्रिंशदोषविधुरं अष्टभिर्गुणैरुपेतश्च तद्भवति, गुणाश्चैवं 'निर्दोष सारभूतश्च हेतुयुक्तमलङ्कृतम् । उपनीतं सोपचार मितं मधुरमेव चेति । ईदृशश्च 25 सूत्रमस्खलितादिगुणोपेतमुच्चारणीयमपरथाऽतिचारप्राप्तिः स्यात् , तथा च सूत्राणां पूर्वोक्तलक्षणानां स्खलितमिलितान्बुच्चारणेन परिप्राप्तातिचारैज्ञानस्य मालिन्याद् य आत्मानं निर्बलं