________________
पसम्पावरिभाकरे
[तीवपिर विशिष्टेति । विशिष्टं द्रव्यं लेपवज्जुगार्यादि तन्मिभं अलेपवद्वा मण्डकादिद्रव्यमद्य ग्रहीष्यामि दर्वीकुन्तादिना, अथवा यद्यहं कुल्माषबाकुलान् शूपैंककोणस्थान लप्स्ये तान् ग्रहीष्यामि नान्यथेत्येवमादिरूपो द्रव्यविषयो नियम इत्यर्थः । क्षेत्राभिग्रहमाह विशिष्टक्षेत्रेति, निगडनियंत्रितचरणा यद्येकं पादमुदुम्बरस्य मध्ये द्वितीयं च बहिष्टादात्री करिष्यति तदाहं 5 भिक्षा ग्रहीष्यामि नान्यथेत्यादिरूप इत्यर्थः । कालाभिग्रहमाचष्टे विशिष्टकालेति, यदि दिवसद्वितीयपौरुष्यामतिक्रान्तायां दास्यति तदा भिक्षा ग्रहीष्यामि नान्यथेत्येवंरूप इत्यर्थः । भावाभिग्रहमाह विशिष्टभावेति, उत्क्षिप्तचरकाः, संख्यादत्तिका इष्टलाभिकाः पृष्टलाभिका इत्यादयः, त एते गुणगुणिनोः कथञ्चिदभेदाद्भावयुता अभिग्रहा भवन्ति, यद्वा गायन
यदि दास्यति तदा मया ग्रहीतव्यं, एवं रुदन् वा, निषण्णो वा, उत्थितो वा, संप्रस्थितो वा 10 यद्ददाति तद्विषयो योऽभिग्रहः सर्वोऽपि स भावाभिग्रह इत्यर्थः । लेशेनैवं सति प्रयोजने क्रियमाणा मोक्षार्थिभिः करणसप्ततिनिरूपितेत्याहेतीति ।। इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा विनिर्मितस्य तत्वन्यायविभाकरस्य स्योपशायां न्यायप्रकाशव्याख्यायां करणसप्ततिनिरूपणं
नाम द्वितीयः किरणः ॥
अथ तृतीयः किरणः ॥ अथ चारित्राणां सामायिकादीनां निरूपणे कृतेऽपि प्रकारान्तरेण चारित्रिणस्तानिरूपयितुमाह
तद्वान् चारित्रीत्युच्यते। स पञ्चविधः पुलाकबकुशकुशीलनिर्गन्थ20 स्नातकभेदात् ॥
तद्वानिति । करणचरणरूपचारित्रविशिष्ट इत्यर्थः । तस्य भेदानाह पुलाकेति । ... तत्र पुलाकं स्वरूपयति
सङ्घादिप्रयोजनाय सबलचक्रवर्तिविध्वंससामोपजीवनज्ञानाद्यतिचाराऽऽसेवनान्यतरेण दोषवान् जिनागमादप्रतिपाती च पुलाकः, स 25 द्विविधः लब्धिपुलाकस्सेवापुलाकश्चेति, देवेन्द्रसम्पत्तिसदृशसम्पत्तिमान
लब्धिविशेषयुक्तः पुलाको लब्धिपुलाकः। सेवापुलाकस्तु ज्ञानदर्शनचारित्र लिङ्गयथासूक्ष्मभेदेन पञ्चविधः ।।
15