________________
भाभिमहाः ]
म्यायप्रकाशलमलहते अङ्गप्रमार्जनारूपां प्रतिलेखनामाचष्टेहास्यरत्यरतिपरिहार भयशोकजुगुप्सापरिहारकृष्णनीलकापोतलेश्या. परिहाररसर्द्धिसातगौरवपरिहारमायामिथ्यानिदानशल्यपरिहारक्रोधमानमायालोभपरिहारपृथिव्यप्तेजोवायुवनस्पतित्रसकायरक्षणात्मकभावपूर्णवचनोचारणपूर्वकस्वाङ्गप्रमार्जनात्मिका वा सा पञ्चविंशतिरूपोपल- 5 क्षणतो बोध्या ॥
हास्येति । स्पष्टम् , अथातरौद्रध्यानानुबन्धिकल्पनानिचयवियोगात्मिकायाशास्त्रानुसारिण्याः परलोकसाधिकाया धर्मध्यानानुबन्धिन्या माध्यस्थ्यपरिणतिरूपायाः कुशलाकुशलमनोवृत्तिनिरोधेन योगनिरोधावस्थाभाविन्या आत्मारामात्मिकाया मनोगुप्तेः, अर्थसूचकाङ्गचेष्टापरिहारेण वागभिग्रहकरणरूपाया वाचनप्रच्छनपरपृष्टार्थव्याकरणादिषु लोकागमाविरो- 10 धेन मुखवस्त्रिकाच्छादितमुखतया भाषणात्मिकाया वाग्गुप्तेः, दिव्यमानुषाद्युपसर्गसद्भावेऽपि क्षुत्पिपासादिसम्भवेऽपि कायोत्सर्गकरणादिना निश्चलताकरणरूपायाः सर्वथा कायचेष्टानिरोधरूपाया वा तथा गुरुप्रच्छनशरीरसंस्तारकभूम्यादिप्रतिलेखनप्रमार्जनादिसमयोक्तक्रियाकलापपुरस्सरं शयनादिरूपायाः कायगुप्तेश्च पूर्वमेव प्रायो निरूपितत्वादिह निरूपणं पुनरुक्तप्रायमिति मत्वा प्राह
15 प्रागुपदर्शिता गुप्तयस्तिस्रः॥ प्रागिति । संवरनिरूपणे उपदर्शिता इत्यर्थः ॥ अथाभिग्रहमाख्यातिसाधुनियमविशेषोऽभिग्रहः । स च द्रव्यक्षेत्रकालभावतश्चतुर्विधः ॥
साध्विति, अभिगृह्यन्ते साधुभिर्नियमविशेषा द्रव्यादिभिरनेकप्रकारास्तेऽभिग्रहाः, 20 तथा च साधूनां नियमविशेषोऽभिग्रहो यथेत्थमाहारादिकममीषां कल्पते नेत्थंभूतमित्येवंरूप इति भावः । द्रव्यक्षेत्रकालभावविशेषप्रयुक्तत्वात्स चतुर्विधो भवतीत्याशयेनाह स चेति ॥
तत्र द्रव्याद्यभिग्रहानाह
विशिष्टद्रव्यपरिग्रहो द्रव्याभिग्रहः । विशिष्टक्षेत्रस्थदातृसकाशादनादिग्रहणं क्षेत्राभिग्रहः । विशिष्टकाल एवान्नादिग्रहणं कालाभिग्रहः । 25 विशिष्टभावयुतदातृसकाशादनादिपरिग्रहो भावाभिग्रहः । इति करणनिरूपणम् ॥