Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
'तस्वभ्थापविमाकरे
[ द्वितीयकिरणे
अशुचिमय इति । अशुचिप्रचुर इत्यर्थः तत्कथमित्यत्राहाशुचिहेतुक इति यतो गर्भे शुक्रशोणितमेलनप्रभवो जरायुवेष्टितो मात्रभ्यवहृतान्नपानरसवर्द्धितः लिद्यद्धातुसमा कुलो, ऽतोऽशुचिमय इत्यर्थः, उत्पन्नादपि तस्मात्सदाऽशुचीन्येव मलमूत्रश्लेष्मपित्तरवेदादीनि निर्यान्तीत्यतोऽप्यशुचिमय इत्याहाशुचिस्यन्दीति, भावनाया अस्याः प्रयोजनमाह एतया चेति, 5 निर्ममत्वमिति, शरीरपोषणशृङ्गारादावौदासीन्यमुदेतीति भावः ॥
: ५६० :
आश्रवभावनामाह-
इन्द्रियायावद्वारा कर्मागमनचिन्तनमाश्रवभावना । अनया चाश्रवनिरोधाय यतेत ॥
इन्द्रियादीति । बहुतरविद्याबलादियुता अपि तत्तदिन्द्रियविषयप्रसक्तचित्ता इहामुत्र च 10 विनाशं प्राप्नुवन्ति अत एते चक्षुरादयो निजप्रवाहपतितमात्मानं सन्मार्गाद्धंशयन्ति नदीप्रवाहो स्वस्मिन् पतितानां तृणकाष्ठादीनामिव । अत इन्द्रियादयश्शुभाशुभकर्मागमद्वारभूता जीवस्योपकारिण इति चिन्तनमाश्रवभावनेति भावः । लाभमाहानयाचेति, अनया भावनया इन्द्रियविषयेषु मनोव्यावृत्त्या अनर्थपरम्परैकजनकादाश्रवौघात्परावर्त्तत इति भावः ॥
संभावनामाविष्करोति
आश्रवदोषास्सर्वे पापोपार्जन निरोधपटिष्ठसंवरवतो नैव स्पृशन्तीति विलोकनं संवरभावना । अनया च संवराय घटते ॥
15
आश्रवदोषा इति । मनोवचः काय कर्मप्रभवात्रवास्सर्वे पापसम्पादननिरोधसमर्थप्राणातिपातनिवृत्त्यादिपरिरक्षकगुत्यादिधारणतो नैव भवन्तीत्येवं चिन्तनमित्यर्थः, फलमाहानयेति, तत्रं विचारयतोऽवश्यं मिध्यात्वकषायादिनिरोधाय तत्परिपन्थिभूतेषूपायेषु 20 प्रवृत्तिर्भवति तथा च सद्दर्शनेन मिथ्यात्वं क्षमया क्रोधं मार्दवेन मानमार्जवेन मायामनीहया लोभं संयमेन विषयान्विषतुल्यान् गुप्तित्रयेण योगमप्रमादेन प्रमादं सावद्ययोगहानेन चाविरतिं शुभस्थैर्यचेतसाऽऽर्त्तरौद्रात्मकं ध्यानं च निरुध्यादिति भावः ॥
निर्जराभावनामाह—
नरकादिषु कर्मफलविपाकोदयोऽबुद्धिपूर्वकस्तपः परीषहादिकृत कु 25 शलमूल इति विभावनं निर्जरा भावना । अनया च कर्मपरिक्षयाय यतेत ॥ नरकादिष्विति । नरकादिषु कर्मफलविपाकोदयस्याबुद्धिपूर्वकत्वेन संसारानुबन्धित्वा

Page Navigation
1 ... 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676