Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
तत्त्वन्यायविभाकरे
[ द्वितीयकिरणे प्रदक्षिणतो भवन्ति, ऊर्ध्वश्च विमला तमा चाधः, रुचकादारम्भात्सर्या दिशस्साद्याः, बहिश्वालोकाऽऽकाशाश्रयणादपर्यवसिताः, दशापि दिशोऽनन्तप्रदेशात्मिकाः, तत्र रुचकाद्वहिश्चतसृष्वपि दिक्षु प्रत्येकमादौ द्वौ द्वौ नभःप्रदेशौ भवतः, तदप्रतश्चत्वारः, तत्पुस्तष्षट् ततो
ऽप्यग्रतोऽष्टौ व्योमप्रदेशा इत्येवं व्यादिद्वयुत्तरश्रेण्या चतसृष्वपि दिक्षु पृथक्पृथक् नेतव्यम् , 5 तत एताः शकटो/संस्थानाः पूर्वादिका महादिशश्चतस्रो भवन्ति, एतासाश्च चतसृणामपि दिशां चतुर्वन्तरालकोणेष्वेकैकनभःप्रदेशनिष्पन्ना अनुत्तरा यथोत्तरं वृद्धिरहिताश्छिन्नमुक्तावलीसंस्थिताश्चतस्र एव विदिशो भवन्ति, ऊर्ध्वन्तु चतुरो नभःप्रदेशानादौ कृत्वा यथोत्तरं वृद्धिरहितत्वाच्चतुष्प्रदेशिकैव रुचकनिभा च चतुरस्रदण्डाकारैकैव भवति, अधो
ऽप्येवं प्रकारा द्वितीयेति, निश्चयनयेन बोध्यम् , व्यवहारेण तु यत्र सवितोदेति सा प्राची, 10 यत्रास्तं याति सा प्रतीची कर्कादिधनुरन्तान् राशीन यत्र स्थितश्वरति सा दक्षिणा, मक
रादीन् मिथुनान्तान् यत्र स्थितश्वरति सोत्तरेति सूर्यगतिकृतो नियमः, एवं विदिशोऽपि भाव्या इति ॥
तत्राधोलोकस्वरूपं पृथिवीभेदेनोच्यते
रत्नशर्करावालुकापङ्कधूमतमोमहातमःप्रभापूरपर्याया धर्मावंशाशै15 लाञ्जनारिष्टामघामाघवत्यभिधानास्सप्त पृथिव्योऽधोऽधः पृथुतराः॥
- रत्नेति । रत्नादीनां महातमःपर्यन्तानां द्वन्द्वः प्रभाशब्दस्य प्रत्येकमभिसम्बन्धः, तेन रत्नप्रभेत्यादिरों विज्ञेयः, रत्नादीनां प्रभायोगाद्गोत्रेणोत्कीर्तनम् , अथवा प्रभाशब्दस्स्वभाववाची प्राचुर्येण रत्नस्वभावा रत्नमयी रत्नबहुला वेत्यर्थः एवं शर्कराप्रभादावपि । नाम तासामाह घ
मेति, तथा च प्रथमा पृथ्वी नाम्ना घर्मा गोत्रेण रत्नप्रभा द्वितीया नाम्ना वंशा गोत्रेण शर्कराप्रभे20 त्येवं भाव्यम् , पृथिव्य इति, पदमिदमधिकरणविशेषप्रतिपत्त्यर्थ, यथा च स्वर्गविमानपटलानि
भूमिमनाश्रित्यावस्थितानि न तथा नारकावासाः, किन्तर्हि ? भूमिमाश्रित्य व्यवस्थिता इति भावः, सप्तग्रहणं न्यूनाधिकसंख्याव्यवच्छेदाय, अधोऽध इति, सप्तापि भूमयो नोर्ध्वतिर्यक्प्रचयेनावस्थिता अपि त्वधोऽध एवेति भावः । पृथुतरा इति, उपर्युपरितनपृथिव्यपेक्षयाऽधोऽधः
पृथिवीनामायामविष्कम्भाभ्यां महत्तमत्वं, तथाहि विष्कम्भायामाभ्यां रत्नप्रभैकरज्जुप्रमाणा, 25 शर्कराप्रभा रज्जुद्वयप्रमाणा, वालुकाप्रभा रज्जुत्रयप्रमाणेत्येवंरूपेण भाव्या, तथा रत्नप्रभा
१. अस्याः पृथिव्याः काण्डत्रयं खरकाण्डपंकबहुलकाण्डजलबहुलकाण्डभेदात् , तत्क्रमेण च षोडशचतुरशीत्यशीतियोजनसहस्रबाहल्यविभागात्मकम् , खरकाण्डं षोडशविधरत्नात्मकत्वात् षोडशविधम् , तत्र यः प्रथमो भागो. रत्नकाण्डं नाम तद्दशयोजनशतानि बाहल्येन, एवमन्यान्यपि पञ्चदश भाव्यानि रत्नविशेषमयानि चेति ॥

Page Navigation
1 ... 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676