Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 642
________________ भाभिमहाः ] म्यायप्रकाशलमलहते अङ्गप्रमार्जनारूपां प्रतिलेखनामाचष्टेहास्यरत्यरतिपरिहार भयशोकजुगुप्सापरिहारकृष्णनीलकापोतलेश्या. परिहाररसर्द्धिसातगौरवपरिहारमायामिथ्यानिदानशल्यपरिहारक्रोधमानमायालोभपरिहारपृथिव्यप्तेजोवायुवनस्पतित्रसकायरक्षणात्मकभावपूर्णवचनोचारणपूर्वकस्वाङ्गप्रमार्जनात्मिका वा सा पञ्चविंशतिरूपोपल- 5 क्षणतो बोध्या ॥ हास्येति । स्पष्टम् , अथातरौद्रध्यानानुबन्धिकल्पनानिचयवियोगात्मिकायाशास्त्रानुसारिण्याः परलोकसाधिकाया धर्मध्यानानुबन्धिन्या माध्यस्थ्यपरिणतिरूपायाः कुशलाकुशलमनोवृत्तिनिरोधेन योगनिरोधावस्थाभाविन्या आत्मारामात्मिकाया मनोगुप्तेः, अर्थसूचकाङ्गचेष्टापरिहारेण वागभिग्रहकरणरूपाया वाचनप्रच्छनपरपृष्टार्थव्याकरणादिषु लोकागमाविरो- 10 धेन मुखवस्त्रिकाच्छादितमुखतया भाषणात्मिकाया वाग्गुप्तेः, दिव्यमानुषाद्युपसर्गसद्भावेऽपि क्षुत्पिपासादिसम्भवेऽपि कायोत्सर्गकरणादिना निश्चलताकरणरूपायाः सर्वथा कायचेष्टानिरोधरूपाया वा तथा गुरुप्रच्छनशरीरसंस्तारकभूम्यादिप्रतिलेखनप्रमार्जनादिसमयोक्तक्रियाकलापपुरस्सरं शयनादिरूपायाः कायगुप्तेश्च पूर्वमेव प्रायो निरूपितत्वादिह निरूपणं पुनरुक्तप्रायमिति मत्वा प्राह 15 प्रागुपदर्शिता गुप्तयस्तिस्रः॥ प्रागिति । संवरनिरूपणे उपदर्शिता इत्यर्थः ॥ अथाभिग्रहमाख्यातिसाधुनियमविशेषोऽभिग्रहः । स च द्रव्यक्षेत्रकालभावतश्चतुर्विधः ॥ साध्विति, अभिगृह्यन्ते साधुभिर्नियमविशेषा द्रव्यादिभिरनेकप्रकारास्तेऽभिग्रहाः, 20 तथा च साधूनां नियमविशेषोऽभिग्रहो यथेत्थमाहारादिकममीषां कल्पते नेत्थंभूतमित्येवंरूप इति भावः । द्रव्यक्षेत्रकालभावविशेषप्रयुक्तत्वात्स चतुर्विधो भवतीत्याशयेनाह स चेति ॥ तत्र द्रव्याद्यभिग्रहानाह विशिष्टद्रव्यपरिग्रहो द्रव्याभिग्रहः । विशिष्टक्षेत्रस्थदातृसकाशादनादिग्रहणं क्षेत्राभिग्रहः । विशिष्टकाल एवान्नादिग्रहणं कालाभिग्रहः । 25 विशिष्टभावयुतदातृसकाशादनादिपरिग्रहो भावाभिग्रहः । इति करणनिरूपणम् ॥

Loading...

Page Navigation
1 ... 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676